________________ उन्मत्तराघवम् / आयतेक्षणमरांलकुन्तलं पक्वबिम्बफलपाटलाधरम् / मञ्जुभाषिणि ममाक्षिगोचरं कल्पते तव कदा मुखाम्बुजम् // 35 // (परितोऽवलोक्य / ) अये, प्रियायाः किंचिदपि वस्तु न लक्ष्यते / केनाहं हृदयमवलम्बे। लक्ष्मणः-आर्य, देव्याः करपरिभ्रष्टमिदं मणिवलयम् / तदवधारयत्वार्यः / (इति ददाति / ) रामः-(गृहीत्वा सहर्षम् / ) मम हृदयमिदं चिराय किंचिद्विगलिततापरुजं वितन्वदेतत् / कथमपि करपल्लवात्प्रियाया मणिवलयं पतितं मयाद्य लब्धम् // 36 // (हृदये निक्षिपन् / ) एतत्पुरा मम गलं परिपीड्य गाढं च्छिन्नं व्यधत्त बहुशः परिरम्भणेषु / बिम्बाधरं मयि रसात्पिबति प्रियायाः कोलाहलं च कृतवत्करधूननेषु // 37 // (निःश्वस्य / ) वत्स, क्व जानकी पश्यामः / कुत्र वनान्तः पुनरन्विष्यामः / केषु वा निकुञ्जषु पुनर्विलोकयामः / हन्त, सर्वथा निराशाः स्मः / दिशो विलोकयाम्यद्य ज्वालापरिटता इव / बाढं जगदिदं मन्ये ह्यद्य मे प्रियया विना // 38 // लक्ष्मणः-अहो, कष्टमार्यस्येयं दशा वर्तते / रामः-किमत्रास्महे। वत्सा याहि गृहं व्रजाम लक्ष्मणः किमिदं गेहं राम:लक्ष्मणः कानने वत्स्यामः रामः- कथमागता वनभुवं कुतः