________________ काव्यमाला / लक्ष्मणः-अहो, चिरमुन्मादो वर्तते / रामः-अये जानकि, एतवान्तं कालं कुत्र गतासि / (कर्ण दत्त्वा / ) किं ब्रवीषि—'आर्यपुत्रस्य प्रेमपरीक्षार्थ क्वचिल्लताकुओ निगूढास्मि' इति / लक्ष्मणः-वास्ते जानकी। रामः- (अनाकर्णितकेन / ) त्वदालापाः कर्णं मम नवसुधाशीकरमया स्तव स्पर्शोऽप्यते शिशिरशिशिरश्चन्दनरसः / / ' शरज्ज्योत्स्नापूरस्तव वपुरिदं मे नयनयोः कथं ते कल्याणि क्षणमपि सहे हन्त विरहम् // 32 // लक्ष्मणः-आर्य, वास्ते जानकी / रामः-नन्वियमग्रत एवास्ते / (इति पुरोपस्थितां लतामुपस्त्य विलोक्य / ) अहो मे मोहः। कुसुमस्तबकानता विलोलां दधती पल्लवसंपदं मनोज्ञाम् / मकरन्दलिहां मधुव्रतानां कलझंकारकरम्बिता लतेयम् // 33 // (पुनर्विलोक्य / ) वत्स, अस्यामेव लतायां पुष्पाण्यवचितवती जानकीति तर्कयामि / तथा हि। अवचितकुसुमानि तया केवलसन्तावशेषितान्यधुना / पतिताः पल्लवभङ्गा लक्ष्यन्ते तत इतश्चामी // 34 // लक्ष्मणः-एवमेतत् / पदपद्धतिरप्यविच्छिन्ना लतामिमां प्राप्ता / रामः-इतः परं कां दिशं प्रस्थितेति विलोकय / लक्ष्मणः-तथा / (इति लतां परिभ्रमन् , मणिवलयं विलोक्य, स्वगतम् / ) इदं देव्याः करपरिभ्रष्टम् / तदार्यस्य हृदयविनोदनार्थमवसरे दर्शयामि / (इत्यादाय पटान्ते पिदधाति / उपसृत्य प्रकाशम् / ) आर्य, नेतःपरं कुत्रापि लक्ष्यते पादमुद्रा / किंतु बने संचरतः कस्यापि मृगस्यात्रैवाभिव्यक्ता पदसरणिरालोकिता। रामः-हन्त, निराशाः स्मः / अये जानकि,