________________ उन्मत्तराघवम् / * (लक्ष्मणोऽन्यतो दर्शयति / ) रामः-(विलोक्य ससंभ्रमम् / ) वत्स, केचिदमी चोराः प्रियायाः सर्वाभरणजातमादाय मस्तके दधानाः प्रसारितबाहवो मया योङमग्रतो निःशङ्कमासते / पश्य पश्य / मुक्ताहारच्छटामेके पद्मरागावलि परे / प्रियायाः कनकाकल्पानपरे हन्त बिभ्रति // 28 // लक्ष्मणः-(स्वगतम् / ) कष्टमार्यस्य पुनरप्युन्मादः / रामः-भो भोश्चोराः, तिष्ठत / ममाग्रतः कुतो गम्यते / इदानीमेव धनुरारोप्यकेनैव सायकेन सर्वान्वः पातयामि / (इति साटोपं परिक्रम्य धनुरारोपयति / ) लक्ष्मणः-(सज्जं धनुरवलम्ब्य / ) अलमाटोपेन / रामः-वत्स, मुञ्च मुञ्च बाणं संधास्यामि / अमी पुनरत्रैव निर्भया निधलमासते / (इति तूणीरमुखाद्वाणमुद्धर्तुमिच्छति / ) लक्ष्मण:- निषङ्गान्निर्गते बाणे परेषां प्राणनिर्गमः / : तदेव ज्ञायते देव संधानं किंप्रयोजनम् // 29 // मतः शरसंधानं विहाय विभावयत्वार्यः, नात्र चोराः / रामः-(विभाव्य / ) अहो, मे मूढा मतिः / तथा हि / आरक्तोऽयमशोककुड्मलचयो नो पद्मरागच्छटा फुल्लोऽयं नवकर्णिकारनिकरो न स्वर्णभूषावलिः / एषा च स्फुटसिन्धुवारपटली नो मौक्तिकानां व्रजः शाखाजालभृतस्त एव तरवो नोद्यद्भुजा दस्यवः // 30 // लक्ष्मणः-इतोऽपि लताकुओषु विभावयावः / रामः-तथा। (इति पदान्तरे स्थित्वा विलोक्य सहर्षम् / ) वत्स, दृष्टा निकी। स्तनभरविनम्रमूर्तिर्मामिह चाहूय पाणिचलनेन / * कर्णामृतैर्वचोभिः कलयति मम हृदयमाहितानन्दम् // 31 //