________________ 10 काव्यमाला। अपि च / माकन्दवन्दमकरन्दजलेषु मना धृत्वा च पङ्कजरजांसि मधुव्रतालिः / मानापनोदनफलाय मनस्विनीनां मन्त्रानुदीरयति मन्मथदेवताकान् // 24 // किं [च] निरन्तरमधुरसास्वादमत्तानाममीषां वचनमप्रमाणमेव / अत प्रियागतिर्न प्रष्टव्या / (पदान्तरमभिनीय कर्ण दत्त्वा / ) वत्स, सरोजनेत्रा सहकारवीथ्यां नवप्रवालान्तरिता प्रिया मे / अव्यक्तवर्ण किमपि ब्रुवाणा समुत्सुकं मे हृदयं तनोति // 25 // लक्ष्मणः-(स्वगतम् / ) कोकिलालापमाकर्ण्य भ्रान्तो नूनमार्यः / रामः-अये, प्रियालाप इव श्रूयते नाकृतिस्तु दृश्यते / अत प्रार्थयामि। चेतसः सपदि जीवनौषधं नेत्रयोरमृतवर्तिकाञ्जनम् / मन्मथज्वरमहारसायनं दर्शयस्व दयिते तवाकृति(नन)म् // 26 (क्षणमात्रं तूष्णीं स्थित्वा / ) अयि जानकि, किमित्यौदासीन्यं भजसि / आगत्य तूर्णमसितोत्पलरम्यनेत्रे कण्ठं बधान मम ते भुजवल्लरीभ्याम् / पश्चादुपेत्य निभृतं पदमर्पयन्ती यद्वा पिधेहि नयने करपल्लवाभ्याम् // 27 // (इति नयने निमील्य तिष्ठति / ) लक्ष्मणः-(स्वगतम् / ) कष्टं प्रतीकारदुःस्थे कर्मणि किं कुर्मः / रामः-प्रिये, किमिति विलम्बसे / उभयोः पक्षयोरेकतरमाचर / लक्ष्मणः-आर्य, एष कोकिलालापः श्रूयते / नात्र जानकी सा ज्वलति (?) / रामः—(नेत्रे निमील्य पुनः कर्ण दत्त्वा / ) स एवेदानीं श्रुतबीणारवस्य ढ काध्वनिरिव कठोरतां भजति /