________________ काव्यमाला। लक्ष्मणः-किमेवं खिद्यसे। इदं वनं प्रविश्यान्विष्यद्भिदृश्यते देवी। रामः-मन्दभाग्ययोर्मम चक्षुषोरतःपरं कुतः सीतादर्शनसुखम् / तथापि प्रतिपादय / लक्ष्मणः-इत इतः / (उभौ परिक्रम्य वनं प्रविशतः / ) लक्ष्मणः-आर्य, सिकतावति प्रदेशे स्पष्टं प्रतीयते देव्याः पदपद्धतिः। रामः-(विलोक्य / ) नूनमियं प्रियायाश्चरणसरणिः / तथा हि / स एवाङ्गुलिविन्यासः स एव चरणक्रमः / तदेवाल्पप्रदेशत्वं सैव विक्षेपचातुरी // 13 // (निःश्वस्य / ) प्रणतात्प्रणयापराधकाले शिरसो मे पतितैः प्रसूनजालैः / कृतपूजनयोर्मुगेक्षणायाः पदयोरत्र विलोकयामि मुद्राम् // 14 // (पदसरणिमनुसरन्, विलोक्य / ) .. अश्रुबिन्दुचयमञ्जनाञ्चितं मुञ्चती प्रणयकोपनिर्गतम् / पाटलं विनमितं मुखाम्बुजं बिभ्रतीयमिह दृश्यते प्रिया // 15 // (उपसृत्य / ) प्रिये, प्रसीद प्रसीद / अयि मुञ्च रुषं तव प्रसन्नं जितपूर्णेन्दु मुखारविन्दमस्तु / प्रणतिं कलयन्नहं त्वदीयां पदलाक्षां परिपालयामि मूर्ना // 16 // (इति तत्रस्थितां पादमुद्रां प्रणमति / ) लक्ष्मणः-कष्टमार्यस्योन्माददशा वर्तते / आर्य, न जानकी / (इति मूर्धानमुन्नमयति / ) रामः—(उत्थाय स्थलपद्मिनी विलोक्य / ) मधुभरनमितप्रसूनां महीतलगलितमकरन्दपानाय कमलोदरादापतन्त्या मधुकरमालया स मे तामरुणां स्थलपद्मिनी विलोक्य मूढोऽस्मि / लक्ष्मणः--अहो, ज्ञानाज्ञानयोः संकरः / तथा हि / वाक्यानि कानिचिदयुक्ततराणि वक्ति ब्रूते च कान्यपि तथापि यथार्थवन्ति /