________________ उन्मत्तराघवम् / लक्ष्मणः-देवतार्चनाकुसुमान्यवचेतव्यान्येव / रामः-(स्वगतम् / ) किमतःपरं कथयिष्यतीति कम्पते मे चेतः / (प्रकाशम् / ) ततस्ततः / मधुकरिका-मणोहराई कुसुमाई दीसन्दि त्ति इदं काणणन्तरं पविट्ठा जाणई अण्णेसन्दीए मए ण दिहा / (क) रामः-हा, हतोऽस्मि / ज्वलत्तुषाराग्निकणोपमानि सीता न दृष्टेति दुरक्षराणि / कर्ण प्रविष्टानि हठादमुनि सर्वाङ्गतापं जनयन्ति हन्त // 9 // कष्टम् / अतिदारुणो दैवदुर्विपाकः / अम्बाजनं च पितरं च सहोदरौ च राज्यं च तानि भवनानि सबान्धवानि / . देवाद्विहाय विपिने वसतां तथापि हन्तातिदुःखमविषह्यमुपागतं नः // 10 // हा जानकि, विरहं मम सोढुमक्षमा त्वं वनवीथीध्वपि मामनुदुतासि / अकृतागसमेनमद्य मुक्त्वा वद कुत्रासि कुरङ्गशावनेत्रे // 11 // लक्ष्मणः-(स्वगतम् / ) इममार्यः पश्यति चेदतिपीडितो भविष्यति / तदेनं प्रेषयामि / (अपवार्य / ) मधुकरिके, इममुटजं नय / अहमार्यसमीपे तिष्ठामि / मधुकरिका—(कनकमृगमादाय / ) तह / (इति निष्क्रान्ता / ) (ख) रामः-- प्राणप्रियां प्राप्तवती कठोरामकीर्तितव्यां पदवीमकाण्डे / त्रैलोक्यलावण्यललामभूतां हा जानकी कुत्र विलोकयामि // 12 // (क) मनोहराणि कुसुमानि दृश्यन्त इतीदं काननान्तरं प्रविष्टा जानकी अन्वेषन्त्या मंया न दृष्टा / (ख) तथा /