________________ काव्यमाला। मधुकरिका-(ससंभ्रमम् / ) अए, कणअमिअं गेण्हिअ अन्तिअत्येण लक्खणेण किं वि मन्तअन्तो रामभद्दो एव्व आअच्छदि / अहं से मग्गं परिहरिअ चिहामि / (तथा करोति / ) (क) (ततः प्रविशति यथानिर्दिष्टः सलक्ष्मणो रामः / ) रामः-वत्स, नूनमिमं कनकमृगं विलोक्य जानकी सविशेषं तुष्यति। लक्ष्मणः-वचनमात्रेण देव्याः कुतूहलं निवर्तयतस्तवायं प्रसाद एव कनकमृगलाभादपि महान्तं परितोषमापादयति / .. रामः-(निमित्तमभिनीय / ) वत्स, महामुनेरगस्त्यस्य सामर्थ्यादपगतसकलभये तपोवने सख्या मधुकरिकया सह वर्तमानामपि जानकी विचिन्त्य, अपरिचितप्रदेशतया मनः शङ्काकुलमास्ते। लक्ष्मणः-प्रेमविशेषो हि प्रियजने प्रथमं प्रमादमेव चिन्तयति / . मधुकरिका-(सनिःश्वासम् / ) सव्वहा जदाकदावि कहणिज्जो जेव्व सो उत्तन्तो / ता गच्छम्हि / दाणिं एव कहेमि / (उपसर्पति / ) (ख) लक्ष्मणः-(मधुकरिकां दृष्ट्वा स्वगतम् / ) एकाकिनी दीनमुखी मधुकरिका समागच्छति / सर्वथात्याहितेन भवितव्यं देव्याः सीतायाः / मधुकरिका-जेदु महाराओ / (ग) रामः-मधुकरिके, वास्ते जानकी। , मधुकरिका-(सगद्गदम् / ) देव, तुम्हाणं देवच्चणाए उडअसमीवहिदासु लदासु कुसुमाइं अवचिणोमि त्ति णिग्गदा / (घ) ___ (क) अये, कनकमृगं गृहीत्वान्तिकस्थेन लक्ष्मणेन किमपि मन्त्रयन्रामभद्र एवागच्छति / अहमस्य मार्ग परिहृत्य तिष्ठामि / (ख) सर्वथा यदाकदापि कथनीय एव स वृत्तान्तः / तद्गच्छामि / इदानीमेव कथयामि / (ग) जयतु महाराजः / (घ) देव, युष्माकं देवार्चनायै उटजसमीपस्थितासु लतासु कुसुमान्यवचिनोमीति निर्गता।