________________ उन्मत्तराघवम् / उत्तस्स रामभद्दस्स कहं कहइस्सम् / रामभद्दो वि सुणिअ कीरिसं अवत्थन्तरं अणुहविस्सदित्ति वेवइ मे हिअअम् / (क) (नेपथ्ये कलकलः / ) मधुकरिका-इदो तदो वि संभमन्ता तावसजणा दीसन्ति / अदो रामभद्दो वि आअच्छदित्ति तक्केमि / (ख) (पुनर्नेपथ्ये।) संमृज्यन्तां पदव्यः करधृतकलशावर्जितैस्तोयपूरैः सिच्यन्तामासमन्तादविरलमभितः कीर्णपुष्पाः क्रियन्ताम् / जीवग्राहं गृहीत्वा कनकमृगमसौ जानकीप्रीतिहेतोः संप्राप्तः काननान्तात्समधिकमहिमा सत्वरं रामभद्रः // 7 // अयं हि प्रतिपदमुपयान्तं लक्ष्मणं वीक्ष्य किंचि द्वलितनयनकोणेनादराद्भाषमाणः / श्रमजललसदास्यः शोभते चापदण्डं शिथिलितगुणबन्धं स्कन्धदेशे दधानः // 8 // (क) अनेन सहकारदण्डेन मञ्जरी 'ताडयित्वा मकरन्दपाननिश्चलां भ्रमरीमुत्थापयामि। आश्चर्यम् / मञ्जर्या उत्थितया तया सहचर्या संगतोऽयं मधुकरो माधवीमण्डपमधिरुह्य मधुरसं पिबन्सुखं वर्तते / कुत्र गता जानकी। आश्चयम् / न कुत्रापि दृश्यते / आश्चर्यम् / इयं मनोहराकृतिः कापि हरिणी स्निग्धया दृष्टया मां दृष्ट्वा निःसरद्भिर्नयनसलिलैः सखीस्नेहं सूचयति / मम हृदयमप्येतस्यां चिरपरिचितमिव विस्रब्धं भवति / अथवानया जननान्तरसख्या भवितव्यम् / अत्र महर्षेराश्रमप्रभावाद्दुष्टमृगाणां संचारो नास्ति / तस्मात्कुत्र प्रस्थिता जानकीति म आश्चर्यं भवति / मन्दभागिन्यहं खलु / मृगयाव्यापारान्निवृत्तस्य रामभद्रस्य कथं कथयिष्ये / रामभद्रोऽपि श्रुत्वा कीदृशमवस्थान्तरमनुभविष्यतीति वेपते मे हृदयम् / / (ख) इतस्ततोऽपि संभ्रमन्तस्तापसजना दृश्यन्ते / अतो रामभद्रोऽप्यागच्छतीति तर्कयामि /