________________ काव्यमाला / (ततः प्रविशति हारलतया सह देवी / ) देवी-हारलदे, ता कआपराधं पेक्खिअ एहिं सअं अणुसरन्ती अजउत्तेण केरिसी भणिआमि / (क) हारलता-भट्टिणि, महानुभाव त्ति किं अण्णम् / (ख) देवी-जदि दिडिआ परुसत्तणमुव्वहामि, अजउत्तो आअसीअदि / अणुचिदकारिणी भवामि / (ग) हारलता-देवीए विणा अण्णो को एदं मन्तेदि / विणा मअङ्कलेहं कुदो जोलाए बिसरो / (घ) देवी-अवि जाणासि किं उद्दिसिअ अजउत्तेण सिविणए पलविदम् / (ङ) हारलता-तुज्झवसेक्कजीविदस्स णत्थि अण्णा वाणी / एवंविधा जेव्व सिविणआ [अ] विप्पलम्भका होन्ति / ण. किं पि आसङ्कणिज्जम् / (च). (इति परिक्रामतः / ) देवी–कण्णसुन्दरी अजउत्तस्स दंसणगोअरं गदा / (छ) हारलता-रविकिरणाणं वि अगम्मे त्ति कधं एदम् / (पुरोऽवलोक्य / ) एसो तरङ्गसालाए भट्टा वट्टदि / ता उपसप्पीअदि / (ज) (क) हारलते, तत्कृतापराधं प्रेक्ष्याधुना स्वयमनुसरन्यार्यपुत्रेण कीदृशी भण्ये / (ख) भट्टिनि, महानुभावेति किमन्यत् / / (ग) यदि दिष्टया परुषत्वमुद्हामि, आर्यपुत्र आयास्यते / अनुचितकारिणी भवामि / (घ) देव्या विनान्यः क एतन्मन्त्रयते / विना मृगाङ्कलेखां कुतो ज्योस्नाया विसरः / (ङ) अपि जानासि किमुद्दिश्यार्यपुत्रेण स्वप्ने प्रलपितम् / (च) त्वद्वशैकजीवितस्य नास्त्यन्या वाणी / एवंविधा एव स्वप्ना [च] विप्रलम्भका भवन्ति / न किमप्याशङ्कनीयम् / (छ) कर्णसुन्दर्यार्यपुत्रस्य दर्शनगोचरं गता / (ज) रविकिरणानामप्यगम्येति कथमेतत् / एष तरङ्गशालायां भर्ता वतते / तदुपसर्म्यते /