________________ 1 अङ्कः] . कर्णसुन्दरी। विदषकः-(भित्तिमवलोक्य सचमत्कारम् / ) अए, का एसा पञ्चाएसो उध्वसीपमुहाणं अच्छराणं सव्वङ्गलडहा आलिहिदा / (क) राजा-(अवलोक्योत्थाय च / ) एतत्तदेव सितदेवतरुप्रसून सौभाग्यमङ्गकमनङ्गविलासवेश्म / जैत्रः स एव च विलोचनयोविलासः सैवेन्दुसुन्दरमुखी लिखितेयमास्ते // 52 // अपि च / सैवोन्मजत्कनककलशप्रेक्षणीयस्तनश्री तिर्लोकत्रयविजयिनी राजधानी स्मरस्य / एतच्चक्षुस्तदपि विदलत्केतकीपत्रमित्रं ____ छाया सेयं नियतमधरे विद्रुमोत्सेकमुद्रा // 13 // विदूषकः-भो, एसा चित्ते केण विलिहिदा / (ख) : राजा-मम तावन्मकरकेतुना / इह तु न जाने / विदूषकः-भो, भणामि किं पि जइ मे वअणं करेसि / (ग) - राजा-किं न कथयसि / विदूषकः-ओसरीयदु इमादो तरङ्गसालादो तुरिदम् / कदापि देवी एत्य आअच्छेदि / (घ) राजा-कुपिता कथमागच्छति सौभाग्याभिमानखण्डनानुप्रवेशात् / (क) अये, कैषा प्रत्यादेश उर्वशीप्रमुखाणामप्सरसां सर्वाङ्गलटभालिखिता। . (ख) भोः, एषा चित्रे केन विलिखिता / .. (ग) भोः, भणामि किमपि यदि मे वचनं करोषि / (घ) अपस्त्रियतामस्यास्तरङ्गशालायास्त्वरितम् / कदापि देव्यत्रागच्छति /