________________ काव्यमाला। विदूषकः-पिअवअस्स, पेक्ख / लाडीतण्डवकेलिखिन्नचलणच्छाआलवं पल्लवं कङ्केली पअडेदि पाडलितरू जादो पसूणश्चिदो / एदं कुङ्कुमसिक्ककीररमणीगण्डप्पहं चम्पर्क कम्पावेइ विओइणीओ बउलो फुल्छेहि सल्लेहिँ व // 49 // (क) (इति संस्कृतमाश्रित्य / ) कुर्वाणाः प्राणनाथे प्रणयकलिरुषं जर्जरां गुर्जरीणां मिन्दानाः सान्द्रमानग्रहपटिममदं मेदपाटाङ्गनानाम् / उन्मीलन्मालवस्त्रीवदनपरिमलग्राहिणो हूणरामा कामारम्भश्रमाम्भःकणहरणरसोल्लासिनो वान्ति वाताः / / 50 // राजा-(सोपहासम् / ) अहो वर्णनाक्रमः / (इति निःश्वस्य समन्तादवलोक्य च / ) लीलोद्याने चलकिसलयाः शाखिनः खेललोला श्लिष्यद्रुङ्गावलिवलयिता भान्ति यावन्त एते / कोपावेशाद्वलयितधनुर्बद्धगोधामुलित्र स्तावद्भ्योऽपि त्रिभुवनजयी धावतीवासमास्त्रः // 51 // एहि / तस्यास्तरङ्गशालाया अभ्यन्तरे क्षणमुपविशावः / (तथा कुरुतः / ) (क) प्रियवयस्य, पश्य / लाटीताण्डवकेलिखिन्नचरणच्छायालवं पल्लवं ___ कङ्केलिः प्रकटयति पाटलितरुर्जातः प्रसूनाञ्चितः / एतत्कुङ्कमसिक्तकीररमणीगण्डप्रभं चम्पर्क कम्पयति वियोगिनीर्बकुलः पुष्पैः शल्यैरिव // 1. आदर्शपुस्तकेऽस्मिन्मन्दाक्रान्तावृत्ते 'श्लिष्यदृङ्गावलीभिर्वलयितलतिका भान्ति यावन्त एते' इति द्वितीयः पादः स्रग्धरानिबद्धः शोधकेन स्थापितः. आदर्शपाठस्तु न ज्ञातुं शक्यते.