________________ 1 अङ्कः] . कर्णसुन्दरी। ज्जलिजन्तसहआरङ्कुरसिलीमुहं रजन्तकण्ठकलअण्ठचारुपञ्चमस्सरमहुरिजन्तं मअणुजाणं पेक्खन्तो णिव्वुई उव्वहिस्सदि भवं / (क) राजा-सहृदयो मे वयस्यः / यत्कोकिलाकलरवं कलयत्यनङ्ग चूताङ्कुरं धनुषि यद्विजयास्त्रहेतोः / यच्च स्मितं सुमनसां स समित्प्रपञ्चो जीवातवे विरहपावकडम्बरस्य // 48 // विदूषकः-भो, एत्य कहिं पि भविस्सदि देव्ववसेण दसणगोअरे सा तेल्लोक्कसुन्दरीति भणामि / (ख) राजा-एवमस्तु / उपदिश पन्थानम् / विदूषकः-इदो सेवागदणरिन्दसहस्ससंकिण्णं विलाससंचिअतेल्लोकसुन्दरजणं अत्थाणङ्गणं परिहरिअ चउकिआए खिडिक्किआदो रअणदु. आरिआए णीसरीअ कहिं पि एदु भवं / (ग) (इति परिक्रामतः / ) विदूषकः-इदं तं कोइलपढिजन्तचारुपञ्चमाभिहाणमअणमन्तसंमोहनमढं संततहाणं वसन्तसुहडस्स / ता पविसदु पिअवअस्सो / (घ) (इति तथा कुरुतः / ) (क) भो वयस्य, अभिनवमधुरसतरङ्गितललितलतालिङ्गितकुसमहसिततरुणतरुमण्डलं कुण्डलितकोदण्डचण्डप्रहारपटुमदनसुभटतीक्ष्णीक्रियमाणसहकाराङ्करशिलीमुखं रज्यत्कण्ठकलकण्ठचारुपञ्चमस्वरमुखरीक्रियमाणं मदनोघानं पश्यन्निर्वृतिमुद्वक्ष्यति भवान् / ..'(ख) भोः, अत्र कुत्रापि भविष्यति दैववशेन दर्शनगोचरे सा त्रैलोक्यसुन्दरीति भणामि / (ग) इतः सेवागतनरेन्द्रसहस्रसंकीर्णं विलाससंचितत्रैलोक्यसुन्दरजनमास्थानाङ्गणं परिहृत्य चतुष्किकायाः गवाक्षाद्रत्नद्वारिकाया निःसृत्य कुत्राप्येतु भवान् / (घ) इदं तत्कोकिलपठ्यमानचारुपञ्चमाभिधानमदनमन्त्रसंमोहनमठं(?) संततास्थानं वसन्तसुभटस्य / तत्प्रविशतु प्रियवयस्यः /