________________ काव्यमाला। . एदे गोदावरीए लहरिपरिचिदा दिण्णसिप्पाकडप्पा . .. कंदप्पोद्दीवणेच्छागहिदविहरणा दाहिणा एन्ति वाआ ॥४४॥(क) राजाक्वचिदविषये सा सारङ्गीतरङ्गितलोचना हृदि कवचितः पञ्चेषुमें विकुञ्चितकार्मुकः / अयमपि बत प्राप्तश्ताङ्कुराकुलकोकिला कलरवजयोद्घोषः कालः किमत्र समीहितम् // 45 // (सनिर्वेदोत्कण्ठम् / ) आवासः किलकिञ्चितस्य दयिता पार्श्वे विलासालसा कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः / गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्रोत्सवे // 16 // संप्रति कुर्वन्ति कोकिलकलोपहतिं लतासु रुन्धन्ति वासभवनेषु समीरमार्गान् / किं तन्न यद्विरहिणीनिवहस्य सख्यः सावज्ञमाकुलतया कलयन्त्यजस्त्रम् // 47 // (विचिन्त्य / ) तत्क्वायमात्मा विनोदयितव्यः / विदूषकः-भो वअस्स, अहिणवमहुरसतरङ्गिदललिदलदालिङ्गिदकुसुमहसिदतरुणतरुमण्डलं कुण्डलिदकोदण्डचण्डप्पहारपडुमअणसुहडप ____-__............... (क) कावेरीनालिकेरीतरलननिपुणा नर्मदानर्मकाराः काश्याश्चुम्बनाद्रीस्तुमुलितमुरलालोलकल्लोलमालाः / एते गोदावर्या लहरिपरिचिता दत्तसिप्राकटप्राः कंदर्पोद्दीपनेच्छागृहीतविहरणा दक्षिणा आगच्छन्ति वाताः //