________________ 1 अङ्कः] .. कर्णसुन्दरी। . विदूषकः-एस जेव्व कराला गरलगण्ठी / अहवा तुज्झ किं जादम् / तुअं लुलुल्लरोहिं बोलेहिं पाअपडणेहिं पुणो पि अप्पवसं करेसि। अहं जेव्व एक्को णिन्भच्छिामि / एदस्स दुहबह्मणस्स एवं खु सव्वं विलसिदं त्ति / (क) राजा-कथं न जातम् / न यस्मिन्दाक्षिण्यं परिणतमियत्त्वस्य विषये विकल्पाधिष्ठानं तदपि विहितं प्रेम सुदृशः / इतः शून्यं चेतः स्मरकितवसंचारचकितं न जानीमो धातुः किमधिकरणः सूत्रणविधिः // 41 // . (नेपथ्ये / ) सुखाय कुसुमसमयसमारम्भो देवस्य / संप्रति हि रक्ताशोकट्ठमाणां लसति किसलयश्रेणिरार्द्रापराध प्रेयः शौण्डीर्यपीतद्रविडवरवधूचारुबिम्बाधरश्रीः / उन्मेषश्चम्पकानामजरठमरठीगण्डपालीविलासः कर्णाटीहास्यलेशान्विचकिलमुकुलस्फूर्तयो वार्तयन्ति // 42 // कान्ते नूतनचूतमञ्जरिधनुर्दण्डेऽधुना संदध स्कंदर्पः कलकण्ठपञ्चमरवब्रह्मास्त्रमव्याहतम् / दोयुग्मं वलयीकरोति युगपत्कर्तुं त्रिलोकोपरि स्वामाज्ञां रतिवक्रपत्रशबलं मौर्वीकिणाङ्काङ्कितम् // 43 // . विदूषकः-(अन्यतः) कावेरीणालिएरीतरलणनिउणा णम्मदाणम्मआरा ___ कञ्चीए चुम्बणद्दा तुमुलिदमुरलालोलकल्लोलमाला / (क) एवैव कराला गरलग्रन्थिः / अथवा तव किं जातम् / त्वं म. धुरैर्वचनैः पादपतनैः पुनरप्यात्मवशां करिष्यसि / अहमेवैको निर्भत्र्ये / एतस्य दुष्टब्राह्मणस्यैतत्खलु सर्वं विलसितमिति / 1. विदूषकः' इत्यादर्शपुस्तके नास्ति.