________________ 1 अङ्कः] . कर्णसुन्दरी / देवी-किं पि सुणन्तीओ उपसप्पम / (क) राजा-(बद्धाञ्जलिः / ) आयासः किमयं तथैव धनुषो देव स्मर स्वीकृत स्त्वत्पत्रिव्ययपात्रमत्र कतमः कात्यायनीकामुकः / एतां लोकविलक्षणेन विधिना केनापि येनासिषी(?) यायां(?) चित्रगतामपि प्रियतमां संजीव्य संप्रापय // 54 // देवी-कस्स कदे अजउत्तो एवं मन्तेदि / (ख) हारलता-कस्स अण्णस्स / भोदिं जेव्व कुविदं जाणिअ चित्तपडिबिम्बेण अप्पाणं विणोदेदि भट्टा / ता उपसप्पीअदु / (ग) . (तथा विधत्तः / ) देवी-जेदु अजउत्तो / (घ) हारलता-जेदु जेदु भट्टा / (ङ) देवी-(सविनयम् / ) मए एव्व तदा किं पि खलिदं ति अजउत्तेण ण अण्णधा भणिदव्वम् / (च) . : राजात्रिजगति भवती परं ममैका दिशति मुदं कुमुदस्य कौमुदीव / प्रभुरसि कुरुषे रुषं कदाचिद्गजसि कदापि यथारुचि प्रसादम् // 55 // विदूषकः-महाणुभावा देवी जा एव्वं पतिच्छत्तणं धारेदि / (छ) (क) किमपि शृण्वत्य उपसर्पावः / . (ख) कस्य कृते आर्यपुत्र एवं मन्त्रयते / (ग) कस्यान्यस्य / भवतीमेव कुपितां ज्ञात्वा चित्रप्रतिबिम्बेनात्मानं विनोदयति भर्ता / तदुपसर्प्यताम् / (घ) जयतु आर्यपुत्रः / (ङ) जयतु जयतु भर्ता / (च) मयैव तदा किमाप स्खलितमित्यार्यपुत्रेण नान्यथा भणितव्यम् / (छ) महानुभावा देवी यैवं पत्यनुकूलत्वं धारयति /