________________ काव्यमाला। उन्मत्तराघवं नाम यत्प्रेक्षाणकमुक्तवान् / भास्करः कृतिनां मान्यस्तत्वयाद्य निरूप्यताम् // 2 // इति / तदादिश्यतां प्रयत्नः / नटी-(सविमर्शम् / ) बहुविण्णाणकुसलो क्खु एसो सभाजणो / कहं से हिअअं आवज्जिदूं सक्खिअदि / (क) सूत्रधारः—मा मैवं वक्तव्यम् / विशेषज्ञानामेव गुणग्राहिता नैसगिकी / अतस्ते सुखमावर्जनीयाः / शृणु / विज्ञानविशदमेव हि चेतः सुजनस्य शक्यते हर्तुम् / परिशुद्धमेव लोहं सुतरां कर्षत्ययस्कान्तः // 3 // नटी-होदु / जं अणन्तरकरणिजं तं अजो णिरूवेदु / (ख) मूत्रधारः-नन्विदानी वर्तते वसन्तसमयः / तथा हिं / माकन्दालिं मलयपवना मन्दमान्दोलयन्ते ___ मज्जत्यस्या मधुकरयुवा मञ्जरीणां मरन्दे / आसेवन्ते मुकुलनिकरानासमन्तादशोका वक्तुं मत्ताः पिकयुवतयः पञ्चमं प्रारभन्ते // 4 // देवि, तत्समयोचितं किंचिद्गीयताम् / नटी—(गायति / ) जस्स हि महू अमच्चो दक्षिणपवणो वरूहिणीणाहो। . पिअभमराणुअरो सो जेदु चिरं वम्महो राओ // 5 // (ग) सूत्रधारः-साधु गीतम् / (अन्यतोऽवलोक्य / ) आये, इतः पश्य / मनोहराणामपि मञ्जरीणां विहाय जालानि विशेषलिप्सुः / लतान्तराण्येति मधुव्रतालिः सीता यथेयं कुसुमेषु लोभात् // 6 // (इति निष्क्रान्तौ / ) प्रस्तावना। (क) बहुविज्ञानकुशलः खल्वेष सभाजनः। कथमस्य हृदयमावर्जयितुं शक्यते। (ख) भवतु / यदनन्तरकरणीयं तदार्यो निरूपयतु / (ग) यस्य हि मधुरमात्यो दक्षिणपवनो वरूथिनीनाथः / . प्रियभमरानुचरः स जयतु चिरं मन्मथो राजा //