________________ काव्यमाला। श्रीमद्भास्करकविविरचितम् उन्मत्तराघवम् / कला चान्द्री शंभोः प्रणयकलहप्रापितरुषः प्रणामे पार्वत्याः पदकमललाक्षापरिचिता / श्रियै भूयादस्या वदनशशिनः कोपकलुषात्प्रसादेनारुण्यं विनिमयवशेनेव दधती // 1 // ' (नान्द्यन्ते) सूत्रधारः-(नेपथ्याभिमुखमवलोक्य / ) आयें, इतस्तावत् / . (प्रविश्य / ) नदी-अज्ज, इअं म्हि / को णिओओ आणवेदु / (क) सूत्रधारः-अद्य खल्वादिष्टोऽस्मि विमलतरनिजकीर्तिकर्पूरकरण्डीकृतनिखिलब्रह्माण्डेन दिगन्तदन्तावलकुम्भमण्डलमण्डनायमानप्रतापसिन्दूरेण सकलकलाकलापकोविदेन विद्यारण्यश्रीचरणारविन्दवन्दनमहोत्सवमिलितेनामुना सामाजिकेन, यथा 1. अयं ग्रन्थस्तञ्जोरप्रदेशवर्ति पल्मनेरी'नगराच्छीसुब्रह्मण्यशास्त्रिभिः स्वदेशलिपितो देवनागरलिप्यां परिवर्त्य प्रहितः. अधस्तनी भूमिका च तैरेव लिखितेति परमनुगृहीता वयम्, काव्यमालानुग्राहकाः सहृदयाश्चेति शिवम् // 'भो भोः काव्यमालासंपादका विद्वन्मुकुटमणिवराः, अतिदुर्लभमिदं महाकविश्रीभास्करविरचितमतिप्राचीनमुन्मत्तराघवं नाम प्रेक्षाणकं मया कुहचनातिमहता प्रवासेन संपाद्य श्रीमतामन्तिकं सकुतुकं प्रैषि / अल्पमपीदमनल्पगुणनिरन्तरतया सुतरां सहृदयहृदयमुल्लासयेदित्येव ममाशयः / तदधुना मुकुन्दानन्दभाणमुद्रणसमन्तरमेवैतन्मुद्रणविषये मय्यनुग्रहबुद्धिः श्रीमद्भिः कार्येति प्रार्थना // इति सहृदयसमुदायविधेयः सुब्रह्मण्यशास्त्री। (क) आर्य, इयमस्मि / को नियोग आज्ञापयतु /