________________ उन्मत्तराघवम् / (ततः प्रविशति पुष्पावचयं नाटयन्ती सीता सखी च / ) सखी-हला जाणइ, अग्गदो एव्व कुसुमाइं दीसन्दि / किं अण्णदो दिण्णदिही गच्छसि / (क) सीता-हला महुअरिए, इदो वि पुरहिदे काणणन्तरे मणोहराई कुसुमाइं दीसन्दि / ता अहिलासेण गच्छम्मि / (ख) मधुकरिका-हला जाणइ, दाणिं वि अम्हाणं अपरिचिदो पदेसो। काणणेसु सावाणुग्गहसमत्था इसिणो चिट्ठन्ति / अदो जस्सि कस्सि वि अस्समे कुसुमेसु गहिदेसु जो को वि कुप्पइ / रामभद्दो वि तुह पिअं काढुं कणअमिअं गेण्हिअ मिअआवावारादो दाणिं एव्व णिवहिस्सदि / ता एत्तिएहिं कुसुमेहिं णिवत्तेमो / (ग) सीता-सव्वजणसाहारणाई क्खु वणलदाई फलपुप्फमूलाई णईजलाई अ। अदो किंणिमित्तं जो को विकुप्पदि / (पुष्पभाजनं विलोक्य / ) अजउत्तस्स देव्वच्चणोपजुत्ताई कुसुमाइं पज्जत्ताई / इदो पुरहिदे काणणन्तरे मणोहराई कुसुमाइं अहिगेण्हिअ उडअं गच्छम्हो / (घ) ___(इत्युभे प्रस्थिते।) (क) सखि जानकि, अग्रत एव कुसुमानि दृश्यन्ते / किमन्यतो दत्तदृष्टिगच्छसि / (ख) सखि मधुकरिके, इतोऽपि पुरःस्थिते काननान्तरे मनोहराणि कुसुमानि दृश्यन्ते / तस्मादभिलाषेण गच्छामि / (ग) सखि जानकि, इदानीमप्यस्माकमपरिचितः प्रदेशः / काननेषु शापानुग्रहसमा ऋषयस्तिष्ठन्ति / अतो यस्मिन्कस्मिन्नप्याश्रमे कुसुमेषु गृहीतेषु यः कोऽपि कुप्यति / रामभद्रोऽपि तव प्रियं कर्तुं कनकमृगं गृहीत्वा मृगयाव्यापारादिदानीमेव निवर्तिष्यते / तस्मादेतावद्भिः कुसुमैर्निवर्तावहे / (घ) सर्वजनसाधारणानि खलु वनलताः फलपुष्पमूलानि नदीजलानि च। अतः किंनिमित्तं यः कोऽपि कुष्यति / आर्यपुत्रस्य देवार्चनोपयुक्तानि कुसुमानि पर्याप्तानि / इतः पुरःस्थिते काननान्तरे मनोहराणि कुसुमान्यभिगृह्योटजं गच्छावः।