________________ काव्यमाला। अहमस्थाननखक्षतविक्षततनुवल्लरी परं तेन / गुप्तिं कथं करिष्ये विदग्धजनसंगमेऽङ्गानाम् // 11 // उक्त्वेति वाररमणी निखिलनिशीथप्रजागरोद्विना / क्षोणी निरीक्षमाणा वैलक्ष्येण क्षणं तस्थौ / / 12 // तामवदत्कङ्काली सस्मितवदना विटङ्कदंष्ट्राभिः / भोगोद्भवे विटानां मनोरथं पाटयन्तीव // 13 // एवंविधैव मुग्धे परिशीलितहट्टचेटकटुकानाम् / प्रौढिः कण्टकतीक्ष्णा भवति परं पण्यजीवनशिशूनाम् // 14 // पितृभवनहृतं नियतं हस्तगतं विद्यते धनं तस्य / भवति न तद्विधमधिकं प्रागल्भ्यं रिक्तहस्तस्य // 15 // बिलनिहितद्रविणकणश्चपलगतिमूषकोऽप्यलं प्लवते / दानक्षीणस्तन्द्रीं सुषिरकरः कुञ्जरो भजते // 16 // विटविनिवारणयुक्त्या निर्मक्षिकमाक्षिकोपमं सहसा / गत्वा करोमि तावत्तवोपजीव्यं वणिक्तनयम् // 17 // अस्माकमङ्गमङ्गं पण्योपनतं महाधननिधानम् / दासीसुताः किमेते खादन्ति विटाः प्रसङ्गेन // 18 // इत्युक्त्वा तूर्णतरं शय्याभवनस्थितं समभ्येत्य / शिशुमवदत्कङ्काली विजनकथाकेलितन्त्रेण // 19 // अपि पुत्र रात्रिरखिला सुखेन ते कुमुदहासिनी याता / बन्धनयोग्योऽस्माकं कलावतीहृदयचोरस्त्वम् // 20 // ध्यानं वलनं जृम्भणमुच्छ्रसनं वेपनं परिस्खलनम् / त्वत्संगमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा // 21 // लचिततरुणसमुद्रा कलावती यत्पटाञ्चले लग्ना / यामर्थयते दूतैर्दक्षिणदिग्वल्लभो भोजः // 22 // जन्मान्तरेऽनुबद्धा यदि नेयं संगतिः कृता विधिना / तत्कि त्वयि मम जाता परलोके पुत्रकार्याशा // 23 //