________________ 47 8 समयः] समयमातृका। शिशुतररमणेऽस्याः कौसुमामोदलुभ्य द्रमरभरनिपातैघूर्णमानाः प्रकामम् / प्रसरदगुरुधूमश्यामलाया बभूवु र्वलितविरतवका लज्जयेव प्रदीपाः // 49 // इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समयः / ___ अष्टमः समयः / अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी / प्राभातिकसलिललवस्वेदवती क्षामतां प्रययौ // 1 // गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी / रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् // 2 // शृणु मातः शिशुवयसस्तस्य स्फुटतामकालपुष्टस्य / यस्याल्पकस्य बहुलं मरिचकणस्येव तीक्ष्णत्वम् // 3 // आरोपितः स चेया खट्टामत्युन्नतां शनैः शिशुकः / निश्चलतनुर्मुहूर्त धूर्तः स च कृतकसुप्तोऽभूत् // 4 // ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया / तत्क्षणनवसुरतान्ते सहसा निश्चेष्टतां प्रययौ // 5 // पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलाम् / दत्त्वा वक्षसि हस्तं प्रलयभयाल्लम्भितः संज्ञाम् // 6 // लब्धास्वादः स ततश्चटकरतिर्मा प्रजागरो मूर्तः / खेदक्लान्तामकरोद्गणनातीतैः समारोहैः // 7 // बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम् / कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन // 8 // रोदिति शिशुरिति दयया यस्य न दशनक्षतं मया दत्तम् / तेन ममाधरबिम्बं पश्य शुकेनेव खण्डितं बहुशः // 9 // . मुहुरारोहणहेलापरिरम्भैमिनीकृतं तेन / शिशुसंगमात्क्षणं मे लज्जितमिव नोन्ननाम कुचयुगलम् // 10 //