________________ 4 समयः] . समयमातृका। 23 यातः प्रतारयितुमीश्वरमङ्गनायां ___ मारः पुरा किमिति कार्मुकबाणपाणिः / नाग्रे ततान वनितागुणवर्णनानां __ यत्सौतेन नियतं विननाश मूर्खः // 30 // रक्तोऽप्यशोकविटपी परपुष्टबन्धोः .. प्राप्नोति यस्य विभवे चरणप्रहारम् / तस्मै समृद्धिसचिवैर्मधुपैर्निपत्य धूर्तेर्निपीतमधवे मधवे नमोऽस्तु // 31 // स्वाम्यं सर्वजगत्सु दिव्यमुनयस्तत्रोचिता मन्त्रिणो ____ राष्ट्रं स्वर्गमही महामणिगुरुः कोषः सुधाम्भोनिधिः / दुर्ग मेरुशिरः स्वसैन्यममराः श्रीमान्मुरारिः सुहृ____त्सा बुद्धिर्विबुधाधिपस्य तु यया व्याप्तं भगादैर्वपुः // 32 // लुब्धस्याफलकालकूटकटुकक्रोधस्य निस्तेजसः ___ सर्वाक्रान्तिनिपीडितस्य जलधेर्दातुं प्रवृत्तस्य ते / संख्यातीतसमस्तरत्नवसतेमूर्खाः किमेतावता मोहादेकगजाश्वपादपसुरामात्रेण तुष्टाः सुराः // 33 // .. रामेण हेमहरिणाहरणोत्सुकेन कूटाक्षकेलिसरणेन युधिष्ठिरेण / ईर्ष्यारुषा द्विजरुषा जनमेजयेन .दत्तः परं मनुजवमनि मौग्ध्यसेतुः // 34 // नागैस्तार्थ्यसमर्पितं तदमृतं यत्नश्रीदुर्लभं नो पीतं न विलोकितं न पिहितं मोहात्परं हारितम् / तस्मान्नास्ति जगत्रयेऽपि विमलः प्रज्ञाकणः कस्यचित्सर्वः प्राक्तनजन्मकर्मवशादर्थोद्यमे धावति // 35 // एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा / बुद्धिहीनप्रसादेन जीवामः केवलं वयम् // 36 //