________________ काव्यमाला। अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशपच्यमानाः / जगत्रये देवमनुष्यनागाः प्रज्ञादरिद्राः खलु सर्व एव // 21 // ज्येष्ठेन तावत्परमेष्ठिनैव विचारशून्येन कृतं किमेतत् / यत्कामिनीपीनपयोधराणां विद्युद्विलोला किल यौवनश्रीः // 22 // का नाम बुद्धिहीनस्य विधेरस्ति विदग्धता / कृष्माण्डानां न यश्चक्रे तैलमूर्णा च दन्तिनाम् // 23 // रत्नार्थिना जलनिधौ मधुसूदनेन . .. क्लेशः किलाद्रिवलनप्रभवोऽनुभूतः / किं सैव पूर्वमखिलार्थविलुण्ठनाय ___ कान्ताकृतिः कपटकाममयी न सृष्टा // 24 // निद्रा महीभारपरिग्रहश्च श्रीसंश्रयत्वं परयाचनं च / अत्युन्नतत्वं गुणहीनता च किं युक्तमेतत्पुरुषोत्तमस्य // 25 // कृशः शशी गणा नना भार्या वस्त्रार्धहारिणी / शंभोर्धनपतिप्रीतिर्न विद्मः क्वोपयुज्यते // 26 // भस्माङ्गः प्रकटं बिभर्ति ललनां योऽङ्गे स किं युक्तक निःसङ्गः सततं गणेषु रमते यः किं स सत्यव्रतः। यः सक्तः परमेश्वरोऽपि वृषभृदर्गे स किं नीतिमान्गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धीधनः // 27 // किं कामिनीप्रणयिना दिननायकेन संशातितं भ्रमकता कृतिना स्वतेजः / अर्थेन किं न विहिताभिमुखा मृगाक्षी वित्तेन तीक्ष्णतरमप्यबला सहेत // 28 // चन्द्रस्यश्वरसेवया कृशतनोः क्षण्यं न निर्मूलितं मानी मूर्ध्नि जडः स्थितः कथमिव प्राप्नोति संपूर्णताम् / वृद्ध्यर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं . हन्त्येव स्वसमीहितं गुणमदादुच्चैः स्थितिः सेवकः // 29 //