________________ 3 समयः] समयमातृका। 19 लज्जामहे वयं स्वल्पधनेनेति विभाविनि / . गण्यमाने दशगुणे धूर्तः प्रथमकामिनाम् // 29 // प्रवाससक्तेरधिकारिसूनोः स्थितावरुद्धा तनया ममेति / काचिद्वदन्ती विजने विगृह्य जग्राह भाटी त्रिगुणां समृद्धात् // 30 // . अल्पं ममैतदुहितुर्न योग्यं न च क्षणोऽस्ति त्वमदृष्टपूर्वः / इति ब्रुवाणापि विटं पटान्ते गाढं गृहीत्वा न मुमोच काचित् // 31 // अमात्यपुत्रेण सुताद्य नीता क्षमस्व रात्रिं प्रणयान्ममैकाम् / उक्त्वेति काचिजरती चकार रिक्तस्य सक्तस्य च विप्रलम्भम् // 32 // दातव्यं न ददाति वारविरहे टक्कोऽद्य लब्धस्थलः __ क्रूरः सैन्यपतिः प्रयाति रिपुतां सद्यैव वारं विना / त्तिर्देवगृहात्कथं नु दिविरे वारोज्झिते लभ्यते वाटीपेटकवारतां गतवती प्रोवाच काचित्सखीम् // 33 // अन्यास्ताः सखि कूटपाशनिचयैराकृष्टमुग्धश्रियः ___ कुर्मः किं वयमेव वञ्चनकलां जात्या न जानीमहे / सद्भावे सततं स्वभावविमुखः सर्वाभिशङ्की जनो वाक्यैः काचिदिति प्रकाशमकरोत्सतार्जवावर्जनम् // 34 // ........"सकलैव सा रसवती नीता क्षणेन क्षपा पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः / इत्युद्वेगपरिग्रहग्लपितधीः पृष्टः सहासैविटै___ाचष्टे कटुकुट्टनीकुटिलतामक्लिष्टकूटां विटः // 35 // नास्मद्नेहप्रवेशः सगुणजनकथाकेलिमात्रोचारै प्पारारम्भसारप्रवसदवसरे वासरे कामुकानाम् / वृत्तित्तानुरोधात्कथमपि विदितादृह्यते यामवत्या इत्युच्चैः काचिदूचे बहुगतगणिकावर्गगोपशान्त्यै // 36 // कुरु तरलिके हारं कण्ठे गृहाण मनोहरे वलययुगलं लीले लोलां विलोकय मेखलाम् / 1. 'विभाविने' इति पाठः. 2. 'उपचारे' इति पाठः, 3. 'पर्वोपशान्त्यै' इति पाठः.