________________ 2 समयः] . समयमातृका। सेनास्तम्भ करिष्यामि राज्ञां कृत्वेति वर्णनम् / * भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे // 96 // केदाराम्बुगयाश्राद्धगङ्गास्नानादिवादिनी / तत्फलं बन्धमांधाय सार्थेभ्यः साग्रहीद्धनम् // 97 // नष्टच्छायोपदेशाथै सार्थिता पथि दस्युभिः / रूढ़ा शिबिकया वर्ष प्रपलाय्य ययौ ततः // 98 // चीनानकानामण्डानि साथ रुद्राक्षसंज्ञया / ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्यवादिनी // 99 // बिलसिद्धिधृतश्रद्धागृहीताभरणाम्बरान् / सा चिक्षेपान्धकूपेषु पातालललनोत्सुकान् // 10 // अङ्गविद्धविषास्मोति सुस्निग्धविषगण्डकैः / सा बबन्ध गले मालां विषजाङ्गुलिकाभिधा // 101 // शुल्कस्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः / मुँहूर्तमोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ // 102 // वर्षाणां मे सहस्रं गतमधिकतरं वेढ्यहं धातुवादं सिद्धो मे वाक्प्रपञ्चः करतलकलितं त्रैपुरं कामतत्त्वम् / उर्वर्या गर्वखलितसकलगुरुग्रामभक्त्या तयास्या मित्याख्यानेन नीताश्चरणतललिहष्ठक्कुराः कुक्कुरत्वम् // 103 // पूजासज्जा भजन्ते जयनुतिषु नतिं दिक्षु काम्बोजभोजाः सेवाशुष्कास्तुरुष्काः परिचरणरसे किं च चीनाः प्रलीनाः / उत्कण्ठार्तास्त्रिगर्ताः परिचरणविधौ पीडयन्त्येव गौडा दम्भारम्भेण तस्या विदधति कुसुमोत्सङ्गतामङ्गवङ्गाः // 104 // भ्रान्त्वा महीं जलनिधिप्रथितामशेषां मायाविनीतिविदिताविरतोन्नतिः सा / 1. 'आदाय' इति पाठः. 2 'दीनानकानां' इति पाठः. 3. 'मूहूर्ते योहर' इति पाठः. 4. 'शर्वखर्वी-' इति पाठः. 5. 'भिक्षुकाम्भोजभोगाः' इति पाठः. 6. 'मीनाः' इति पाठः.