________________ काव्यमाला। खला इवातिचपलाः कृतालिङ्गनसंगमाः / न गताः पुनरायान्ति बाले यौवनवासराः // 47 // प्रथम....................................... / ............"नां पुष्पवतीनां लतानां च // 48 // तस्मान्मानिनि कापि हेमकुसुमारामोच्चयाय त्वया ___ माता तावदनेककूटकुटिला काचित्समन्विष्यताम् / एताः सुभ्र भवन्ति यौवनभरारम्भे विजृम्भाभुवो .. वेश्यानां हि नियोगिनामिव शरत्काले घनाः संपदः // 49 // अस्त्येव सा बहुतराङ्कवती. तुलेव कालस्य सर्वजनपण्यपरिग्रहेषु / क्षिप्रप्रकृष्टपलकल्पनया ययासौ / ___ भागी कृतः परिमितत्वमुपैति मेरुः // 50 // यासौ रामामलयजलतागाढसंरोधलीला निर्यन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा / विश्वं यस्याः फलकलनया लक्ष्यतामेति पाणी __ तस्या जन्मक्रमपरिगतं श्रूयतां वृत्तमेतत् // 51 // तवृत्तमात्रश्रवणेन कोऽपि संजायते बुद्धिविशेषलाभः / तयोपदेशे स्वयमेव दत्ते भवत्यसो हस्तगता त्रिलोकी // 12 // इति श्रीव्यासदासापराख्यक्षेमेन्द्रनिर्मितायां समयमातृकायां चिन्तापरिप्रश्नो नाम . प्रथमः समयः / द्वितीयः समयः / अथ दत्तावधानायां कलावत्यां यथाविधि / कथामकथयत्कङ्कः कुट्टन्याः कपटाश्रयाम् // 1 // सर्वभक्षां नमस्कृत्य तामेव भवभैरवीम् / वदामि चरितं तस्याः कुक्षौ यस्या जगत्रयी // 2 // परिहासपुरे पूर्व पान्थावसथपालिका / . बभूव भूमिका नाम ............... // 3 //