________________ 1 समयः] . समयमातृका / तस्माद्विदेशं गच्छामि नेच्छाम्युच्छ्रङ्खलां स्थितिम् / कथं रक्तविरक्तानां तुल्या स्वायत्ततां सहे // 34 // इत्युद्वाष्पदृशस्तस्याः प्रलापं वृद्धनापितः / आकर्ण्य तां समाश्वास्य सोच्छ्रासं प्रत्यभाषत // 35 // भवत्या वित्तलोभेन निर्विचारतया परम् / भिषग्दुष्टभुजंगोऽसौ स्वयमेव प्रवेशितः // 36 // जनन्यो हि हतास्तेन वेश्यानां पथ्ययुक्तिभिः / किं कुटनीकृतान्तोऽसौ वैद्यो न विदितस्तव // 37 // स रोगिमृगवर्गाणां मृगयानिर्गतः पथि / इत्यादिभिः स्तुतिपदैविटचेरैः प्रणम्यते // 38 // 'यमाय धर्मराजाय मृत्यवे चान्तकाय च / वैवस्वताय कालाय सर्वप्राणहराय च // 39 // ' अधुना दुःखमुत्सृज्य मनः स्थित्यै विधीयताम् / कृत्रिमः क्रियतां गेहे रक्षायै जननीजनः // 40 // व्याघ्रीव कुटनी यत्र रक्तपानामिषैषिणी / नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः // 41 / / यत्र तत्र निमग्नानां वेश्यानां जननीं विना / संध्ययोदिवसस्यापि मुहूर्तार्धस्य न क्षणः // 42 // न भवत्येव धूर्तस्य वेश्यावेश्मन्यमातृके / चुल्लीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः // 43 // प्रविष्टा कुट्टनीहीनगृहं क्षीणपटा विटाः / गाथाः पठन्ति गायन्ति व्ययद्रविणमर्थिताः // 44 // अकण्टका पुष्पमही वेशयोषिदमातृका / मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः // 45 // अयं पीनस्तनाभोगसौभाग्यविभवोचितः / द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे // 46 //