________________ कंसवधम् / 79 स्फारस्फाटिकसौधमेतदमलं युष्मत्प्रतापार्चिषः .. श्वेतच्छन्त्रमयं बिभर्ति निभृतं श्रीकामरूपेश्वरः // 19 // अपि च / आस्ते कलिङ्गाधिपतिर्गजानां कोटीः प्रदाय प्रवहन्मदान्धाः / गौडेश्वरोऽपि प्रतिपाद्य सर्व संसेवते संप्रति संप्रतीतः // 20 // कृष्णः-कथं वा प्रतिपुरुषं निवेदयामः / संक्षेपतोऽवधार्यताम् / त्वङ्गत्तुङ्गतुरंगपुंगवगलदानद्विपद्वीपजो दञ्चच्चारुपदार्थसार्थरमणीचञ्चन्मणीनां गणैः / क्षोणीपाः समुपासते परिजनान्विज्ञापयन्तो बहि हीरे कोट्यधिका नतेरवसरं लब्धं दिगन्तागताः // 21 // राजा-(सहर्षम् / ) वासुदेव, भवदनुगृहीतानां भवत्सहायानां कियदेतत् / तथा हि। येषां त्वं दयसे हरे कियदिदं तेषां कृपायाः फलं राज्यप्राज्यगजादिसंपदियती खद्योतविद्योतिका / ब्रह्मेन्द्रादिपदानि यस्य करुणालेशानुषक्तेः फलं ... यस्याः सर्वपुमर्थमस्तकमणेविघ्नाय सिद्ध्यष्टकम् // 22 // अपि च / शीतं चन्दनचन्द्रिकापरिचयात्स्फीतं नभोमण्डला द्गीतं किंनरकामिनीपरिषदाधीतं सुधाम्भोधिना / उन्नीतं सकलोपकारकरणागीतं परीवादतः / ___ श्रीदामोदर किं भणामि भवतः सौजन्यजन्यं यशः // 23 // तद्भवानेव सर्वानेतान्समागतान्यथोचिताचारचतुरवचनादिभिः स्वयमेव संभावयतु / किमत्रान्यैरुपदेष्टव्यम् / - कृष्णः —यदादिशति महाराजः / (इति बहिनिष्क्रम्य तोरणपरिसरे स्थित्वा दक्षिणं बाहुमुद्यम्योच्चैःस्वरम् / ) भो भो नानादिगन्तागताः ससामन्ताः सकलभपालाः, सजानपदाः पौरजनाच, सावधानाः समाकर्णयत महाराजस्य श्रीमत उग्रसेनस्य शासनम् / यत्किल 1. 'अन्य दप्यवधार्यताम्' इति ख-पाठः.