________________ 78 काव्यमाला / .. - देवकी-महाराज, यदीदानीमपि ज्ञातेयमनुरुध्यते तार्ह वत्सयो रामकृष्णयोः कृतागसोर्दुर्ललितयोरपि परेभ्यो महारानेन भक्तावनुरक्तावनुचरौ ज्ञाती इति वा संरक्षणं करणीयम् / . राजा-किमुच्यते संरक्षणमिति / यतः / / विश्वाधीशस्त्रिभुवनगुरुः सर्वगः सर्वशक्तिः साक्षी साक्षान्निरवधिपरानन्दसंदोहकन्दः / लीलाबालः परमपुरुषः क्लेशकोषाद्यपेतः . . कुक्षौ यस्य त्रिभुवनमिदं को नु तं त्रातुमीष्टे // 15 // अपि च। एष क्रीडनकैः स्वयं विरचितैरस्मादृशैः क्रीडति प्रज्ञाया निधिरेन्द्रजालिक इव व्यालादिभिर्मायिकैः / आत्मानं लघुवत्परांश्च गुरुवत्संदर्शयल्लीलया पुत्रभ्रातृसुहृत्सखिव्यतिभिदाभ्रान्त्याभितो भासते // 16 // देवकी-देव, स एष प्रेमोद्गारः / तथा हि / जडोऽपि क्षीणोऽपि प्रकृतिकुटिलोऽपि प्रविगल त्कलोऽपि द्राग्दोषाकरवपुरपीशेन विधृतः / मृगाङ्कश्चेन्मौलौ द्विजपतिधिया तद्भुवमहो महोदाराः प्रायो लघुमपि नयन्त्येव गुरुताम् // 17 // कृष्णः -(प्रविश्य सप्रश्रयावनामम् / ) महाराज, एतच्छीतरुचेमरीचिनिचयं स्रोतः सुरस्रोतसः स्फूर्जद्वालमृणालजालकमिभाधीशस्य दन्तद्युति / निर्मोकं भुजगेश्वरस्य विशदं प्रालेयधारागृहं पार्श्वस्थो विधुनोति चामरयुगं श्रीसिंहलाधीश्वरः // 18 // रामः-महाराज, अम्भोजं विजयश्रियो निलयनं शीतांशुबिम्बं दिवः सेवायै प्रणतं स्वतोऽत्रभवतो मूर्त यशोमण्डलम् /