________________ 77 7 अङ्कः] कंसवधम् / राजा नात्र किमप्युत्तरं प्रतिभाति / अतिमानार्हो खल्वेतौ न विलम्बमर्हतः प्रियसमागमस्य / (रामो निष्क्रम्य पितृभ्यां सह प्रविशति / ) देवकीवसुदेवी-(पुरो निरूप्य / ) अये, कथमयमुग्रसेनोऽत्युग्रोत्कण्ठापूर्णकण्ठस्तू!पकल्पितानल्पाहणोपकरणोऽतिरभसचलितेनान्तःकरणेनोत्तिष्ठमानोऽपि परिसरोसन्नसेवागतानेकराजलोकोपदिष्टाभिषिक्ताचारविरोधनिरुद्ध इवास्ते / (निपुणं निरूप्य / ) अयमुदयमहीभृत्तुङ्गशृङ्गाग्रसङ्गी दिनमणिरिव दीव्यत्युच्चसिंहासनस्थः / कलितकनकवेत्रेणाच्युतेनाग्रभूमौ ___ सविनयमतिदूरं वारितामात्यभूपः // 13 // तदुपसविस्तावत् / . कृष्णः -महाराज, एतौ देवकीवसुदेवौ भवन्तमभिवादयेते / राजा-आः, कथं देवकीवसुदेवौ। दिष्टया जीवलोकं प्रविष्टोऽस्मि / (इति सरभसमुपसृत्यालिङ्गति / सास्रम् / ) हन्त भोः, बाप्पोत्पीडः स्थगयति. दृशौ गद्गदः कण्ठपीठं ... शोकावेगो दहति हृदयं चेतनामुच्छिनत्ति / कृच्छ्रान्मुक्तौ कथमपि चिरात्संगतौ वां न चशे वाचा संभावयितुमिह हा चक्षुषा चेतसा वा // 14 // देवकीवसुदेवी-देव, दैवायत्ते साधारणे च विषये नार्हस्यात्मानं विषादयितुम् / (इत्यन्योन्यमश्रूणि परिमृजन्ति / ) * राजा-इत आस्यताम् / (इत्यर्धासने समुपवेशयितुमाकर्षति / ) देवकी-नोचितमस्मद्विधैरिदमीदशमासनमध्यासितुम् / राजा-(विहस्य / ) अये, कथमहं रामकृष्णाभ्यामीडशे कर्मणि नियुञ्जानाभ्यां स्वजनव्यवहारबाह्यः कृतोऽस्मि / (इति स्वसंनिहित आसने समुपवेशयति।) 1. 'वलितेन' इति क-पाठः. 2. 'उपपन्न' इति ख-पाठः. 3. 'शोचे' इति खपाठः. 4. 'समामृजन्ति' इति ख-पाठः,