________________ . 76 काव्यमाला। (पुनः साञ्जलिबन्धम् / ) जनकौ, यद्यनुगृहीतोऽस्मि तत्किचिद्विज्ञापयामि / यत्किल दैवकृतात्प्रामादिकाद्वापराधात्संप्रत्यराजकं जगदिदमास्ते / ने चाराजकं राष्ट्रमिष्टानिष्टप्राप्तिपरिहारयोः प्रभवति / यदुदाहरन्ति_ 'अनायका विनश्यन्ति नश्यन्ति बहुनायकाः / स्त्रीनायका विनश्यन्ति नश्यन्ति शिशुनायकाः // 12 // ' इति / तन्नास्मदभिजनेषु बहुषु संनिहितेष्वप्यस्मन्मातामह उग्रसेन एव तदास्पदेऽभिषेक्तव्य इति जायते मे मनोरथः / यदि पितरावनुमन्यते / / देवकीवसुदेवौ-प्रथमः कल्पः / अनुमतमेतदावयोरपि / कृष्णः-यद्येवं तर्हि भवत्पुरःसरा मातामहाभिषेकमहोत्सवमनुवर्तामहे / रामः-तदिह सर्व एव वयं कृतस्नानप्रसाधनादिमङ्गलाः श्रममपनीयाभिषेकमण्डपपरिसरमध्यास्य कृतारुतमवेक्षमाणाः समाजकौतुकमनुभवामः। सर्वे एवमस्तु / (इति मन्यन्ते।) कृष्णः - (रामं प्रति / ) आर्य, यावत्पितरौ कृतप्रसाधनौ राजद्वारमुपसीदतस्तावदावां कृताभिषेकं महाराजमुपासीनौ पित्रोरागमनमावेदयावः / रामः-यथाभिरुचितमायुष्मते / (इति निष्क्रान्तौ / ), (ततः प्रविशत्युग्रसेनो रामकृष्णौ च / * रामकृष्णौ-महाराज, देवकीवसुदेवो भवन्तं द्रष्टुकामौ प्रतीहारभूमिमुपासाते / राजा-(ससंभ्रमम् / ) आः, किमत्रावेदनविलम्बेन / अहमेव गत्वा तौ प्रवेशयामि / (इति सहसोत्थातुमिच्छति / ) रामकृष्णौ-महाराज, न युक्तमिदानीमभिषिक्तस्य सर्वेश्वरपदे प्रतिष्ठितस्य स्वविधेयासु प्रजासु प्रारूतस्येव बाह्योपचाराचरणम् / तदावामेव महाराजानुज्ञया प्रवेशयावः / 1. 'राजानं' इति ख-पाठः. 2. 'निवेदयामः' इति ख-पाठः. 3. रामकृष्णौ' इति पुस्तकद्वयेऽपि नास्ति.