________________ 7 अङ्कः) . कंसवधम् / (ततः प्रविशतो रामकृष्णो देवकीवसुदेवौ च / ) देवकावसुदेवौ-(पुत्रावालिङ्गय मूर्धन्यवघ्राय च सास्रम् / ) हा वत्सौ, अद्याभूतां भवन्तौ वयमपि तदिमे जीवलोकं प्रविष्टा व्युष्टा शोकत्रियामा समजनि सुचिंरात्प्रेत्यभावोऽस्मदक्ष्णोः / संसारोऽभूत्ससारः समुदितमहिमज्योतिषाद्यैव दिष्टचा यदृष्टयालम्भि युष्मद्वदनशशिसुधापूरदूरावगाहः // 7 // देवकीनोत्सङ्गे परिशायितौ न च कराङ्गुल्यापि संचारितौ न स्तन्यं परिपायितौ न मधुरैर्गीतैश्च सलालितौ / सस्नेहं न निरीक्षितौ स्खलितया वाचापि नोल्लापितौ वन्ध्याया इव वासरा मम गता लब्ध्वा भवन्तौ सुतौ // 8 // रामकृष्णौआ जन्म प्रतिवासरं बहुविधेनास्मत्कृतेनागसा दैत्येन्द्रेण विवाधितौ किल युवां नानाविधैबन्धनैः / नावाभ्यां तनयोचितं विरचितं किंचित्कदाचित्ततो वात्सल्यादपराध्यतोरविनयं क्षन्तुं युवामहथः // 9 // (इति साष्टाङ्गपातं पादयोः पततः / पितरावुत्थाप्य चिरमालिङ्गतः / ) कृष्णः -(सभयमञ्जलिं बढ़ा / ) / 'मातस्ते निहतो भ्राता दुरात्मा कुलदूषणः / मन्तुमेनं न मे मन्तुं परं तु क्षन्तुमर्हसि // 10 // देवकी-वत्स, मैवं वादीः / उपभुङ्क्ते निजं कर्म शुभं वा यदि वाशुभम् / इहामुत्र च सर्वोऽपि न तत्रान्योऽपराध्यति // 11 // कृष्णः-(सानन्दम् / ) उज्जीवितोऽस्मीदानी शापशङ्कातङ्कसंतापात् / 1. शोकरूपा रात्रिः प्रभातेत्यर्थः. 2. प्रेत्यभावः पुनरुत्पत्तिः. 3. 'यदृष्ट्वा' इति ख. पाठः 4. 'संलापितौ' इति ख-पाठः. 5. अपराधम्.