________________ 74 काव्यमाला। मातामहाय भगवान्विनिवेद्य तस्य ___ राज्येऽभिषेक्तुमुमिच्छति विश्वगुप्त्यै // 3 // .. शाण्डिल्यः-विश्वकर्मन्, कुतः पुनरयं भगवानात्मतन्त्रे जगति निजभुजबलार्जितमपि प्राज्यं राज्यमन्यस्मै प्रतिपादयति / न पुनः स्वयमेवाभिपद्यते / विश्वकर्मा-अये, बालिशोऽसि / यतः / स्वाराज्यादिसुखानि यस्य सहजानन्दाम्बुधेविप्रुषो ब्रह्माण्डानि वसन्ति यस्य कुहरे रोम्णः परार्धात्परम् / लीलाबालतनोश्चराचरगुरोराश्चर्यचिन्तामणे विक्षेपाय न चेतसः प्रभवति क्षुद्रेढगर्थेषणा // 4 // शाण्डिल्यः—ननु भणामि / षट्पञ्चाशत्कोटयो यादवानां व्याप्याशेषं विश्वमध्यावसन्ति / तेष्वेवैकः कोऽपि किं नाभिषिक्तो भक्तः शक्तो जातु नाहत्युपेक्षाम् // 5 // . विश्वकर्मा-अस्त्यत्र किंचिन्निगूढं बीजम् / - शाण्डिल्यः-तन्निभृतं कथय / / ... विश्वकर्मा-ययातिदत्तो यदोः शापः / न तदंश्या राज्यभाजनं भवन्तीति महतीयं कथा पुराणेषु गीयते / अपि च / निहते सहजे कंसे देवकी विमैनीभवेत् / . इति तत्परितोषाय तत्तातमभिषिञ्चति // 6 // तदास्तामप्रस्तुतमेतत् / प्रकृतमनुवर्त्यताम् / / शाण्डिल्य:-क्क पुनरिदानी भगवान् / विश्वकर्मा-मामस्मिन्कर्मणि नियुज्य स्वयं देवकीवसुदेवयोनिगडभेदनाय कारागारं सहाग्रजेन प्रविष्टः / शाण्डिल्यः तर्हि तत्रैवैनमनुसरामि / (इति निष्क्रान्तौ / ) प्रवेशकः / 1. 'अभिवाञ्छति' इति ख-पाठः. 2. 'अभिषिच्यते' इति क-पाठः, 3. 'विमना भवेत्' इति ख-पाठः. 4. 'प्रवेशकः' इति पुस्तकद्वयेऽपि नास्ति.