________________ 7 अङ्कः] . . कंसवधम् / 73 स्वर्बन्धः प्रतिमोचितः क्रतुभुजश्चासन्कृतार्थास्तथा ___.प्येतद्राष्ट्रमराजकं न हृदयस्वास्थ्याय कल्पिप्यते // 1 // तदद्य तदीये पदे तत्पितरमुग्रसेनमस्मन्मातामहमभिषेक्तुमिच्छामि / तदत्र सबहुमानमाहूयन्तां तस्य पापीयसो भिया पलायिता अस्मदनुरागिणः पौराः / संनिपात्यन्तां च भोजवृष्ण्यन्धककुरुप्रभृतयो राजानश्च / निर्मीयन्तां च पुराट्टालगोपुरप्रासादपरिसरोद्यानबिहारभूमयः / प्रसाध्यन्तां च राजपथनगरवीथीद्वारतोरणसौधशिखरोकारप्रकराः / प्रवय॑न्तां च मङ्गलाचारगीततूर्यरवाः / उदोष्यन्तां च सौवस्तिकब्राह्मणमन्त्रघोषाः / प्रनयन्तां च स्वर्वासिवाराङ्गनासहस्राणि / संभ्रीयन्तां च राजाभिषेकोचिताः संभाराः / आघोप्यन्तां च डिण्डीरवाः / यत्किल रच्यन्तां राजमार्गाः प्रशमितरजसः स्वर्गवाटीपटीरै र्बध्यन्तां तोरणानि त्रिदशपतिधनुर्मण्डलोड्डामराणि / उच्छ्रीयन्तां पताकाः सुरपुरतरुणीस्वेदविच्छेददक्षाः सृज्यन्तां भूरिभेरीमुखरवमुखरा भूर्भुवःस्वर्गलोकाः॥२॥ इति / तदिह तावदपरं सर्वं मयैव सुविहितम् / अभिषेकसंभारसंभरणं तु ब्रामणैविधेयम् / तदत्रभवन्तं कुलाचार्य शाण्डिल्यनामानमन्वेषयामि यावत् / (इति पुरः सर्पति / ) (प्रविश्य / ) शाण्डिल्यः-आयुष्मन्विश्वकर्मन्, क्व प्रस्थितोऽसि / विश्वकर्मा-आर्य, भवन्तमेवान्वेष्टुम् / शाण्डिल्यः तदुच्यतां प्रयोजनम् / विश्वकर्मा कंसं निहत्य दनुजाननुजांश्च सप्त निष्कण्टकां भुजबलेन विजित्य पृथ्वीम् / 1. 'कुकुरप्रभृतयो' इति ख-पाठः. 2. 'प्रासादप्रकराः' इति ख-पाठः. 3. 'प्रन. त्यन्तां' इति क-पाठः. 4. 'आघोष्यतां च डिण्डीरवः' इति क-पाठः. 10