________________ 72 काव्यमाला। विश्वं कृष्णाद्वितीयं भयचकितधिया ध्यायतश्चान्तकाले ज्योतिज्योतिःवरूपे भगवति विशति ब्रह्मरन्ध्र विभिद्य // 4 // (रामः सत्वरमुपसृत्य कृष्णमालिङ्गध मूर्धानमाजिघ्रति / कृष्णो विमना इवाधोमुख. स्तिष्ठति।) रामः-आयुष्मन्, न युक्तं हर्षस्थाने वैमनस्यम् / पश्य तावत्स्वर्वासिनामप्युत्सवम् / यतः। उच्चैर्दुन्दुभयो नदन्ति परितो नृत्यन्ति वाराङ्गनाः ___ पाथोदाः पथि सेचनाय मधुरं वर्षन्ति गर्जन्ति च / . . सद्यो दैत्यवधप्रहृष्टहृदया देवाश्च गन्धोडुरं खारीकरलूनपुष्पनिकरं मुञ्चन्ति भृङ्गीरुतैः // 46 // कृष्णः-(सस्मितम् / ) आर्य, स्वजनघातपातकक्किन्नमात्मानं नाभिनन्दामि / गुरुलज्जाभराक्रान्तमाननं च नोन्नमयितुमीशे / तदत्राविमर्षकृतसाहसात्परितप्यते मे चेतः। / रामः-आः, कथमतिमुग्धोऽसि / न खलु समरविहारिणो वीरा. न्हत्वा हिंसादोषेण लिप्यन्ते / विशेषतस्त्वाततायिवधे / यत्स्मरन्ति 'आततायिनमायान्तमपि वेदान्तपारगम् / जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् // 47 // ' इति / तदेहि / राजापायविरहशोकावेशविवशं राजावरोधं परिसान्त्वयितुमन्तःपुरं प्रविशामः। कृष्णः -एवमस्तु / (इति निष्क्रान्ताः सर्वे / ) इति कंसवधे षष्ठोऽङ्कः / ____सप्तमोऽङ्कः। (ततः प्रविशति विश्वकर्मा / ) विश्वकर्मा-आदिष्टोऽस्मि तत्रभवता वासुदेवेन भगवता / यथा किल। निःशल्या निरमायि यद्यपि मही संहृत्य दैत्याधमा . भोजानां कुलमुज्ज्वलं विरचितं भिन्नाश्च कारागृहाः / . 1. 'विशिष्य त्वाततायि' इति क-पाठः. 2. 'मित्वा च कारागृहान्' इति ख-पाठः,