________________ 6 अङ्कः] . कंसवधम् / कुक्षेराक्षिप्य कौक्षेयकमलघुललत्कालजिह्वाकरालं देवारियोडुमस्मानयमतिरभसादासनादुन्जिहीते // 40 // कृष्णः -(विहस्य / ) आर्य, रजसान्धमनात्मज्ञं स्वजनं मातुलं नृपम् / हन्तुं मनो नं वलते कारुण्यप्रवणं मम // 41 // रामः—(सरोषम् / ) आः क्षत्रियातनय नैष विमर्षकालः क्षत्रस्य संगरमुपेयुष एष धर्मः / विश्वद्रुहः किल खलानखिलान्निहन्तुं विश्वाश्रयस्य भवतो भवतोऽवतारः // 42 // कृष्णः-(सविचिकित्सम् / ) अनतिक्रमणीय आर्यादेशः / (इति सत्वरमुपसर्पति। . (नेपथ्ये कलकल: हन्त भोः, क्रोधोद्भूतासिधेनूद्वतपरिघगदापटिशप्रासकुन्त- प्रोद्यच्च सिचक्राक्रमजघनघनक्वाणघोरीकताशम् / क्षिप्त्वा योधावरोधं हरिरिव कलभं रक्षिलक्षस्य कुक्षे मञ्चादुच्चैरुदञ्चन्करकलितकचः कंसमाकर्षति क्षमाम् // 43 // अपि च / अगणितपरपक्षः श्येनपातं पतित्वा चटकमिव गृहीत्वा कंसमुच्चैः कचेषु / अनुपतति शिलायां पोथितं पातयित्वा व्यसुमपि गुरुवैराद्धन्त मृद्राति पद्भ्याम् // 44 // . (सर्वे सातङ्कमाकर्णयन्ति / ) कृष्णः -(निपुणं निरूप्य साश्चर्यम् / ) अहो, महदद्भुतमेतत् / शृण्वानस्याद्वितीयं निरवधिसहजानन्दसंवित्स्वरूपं मन्वानस्यातिचित्राकतिकतिधिषणाशक्तिरूपोपपत्च्या /