________________ 70 काव्यमाला। कृष्णं बलं च घनसारपरागगौरं दृष्ट्वा सुधाम्बुधिनिमजनमेति चेतः // 35 // (पुनः सानुक्रोशम् / ) हन्त भोः, कथमयं महाराजस्य महान्धर्मव्यतिक्रम उपस्थितः / यतः। बालस्वभावचपलावज्ञातगुणदूषणौ / नयनानन्दनिःप्यन्दौ कूटयुबैजिवांसति // 36 // अपि च / न केवलमिह महाराज एवापराध्यति, अपि तु तद्दाक्षिण्यादनिवारयन्तः सदस्या अपि / यदुदाहरन्ति न योध्याः स्त्रीबालस्थविरकशषण्ढासमबला न मत्तोन्मत्तार्ता न कृपणगिरो नापि विमुखाः / अतिक्रामन्नेतत्पतति नृपतिस्तस्य सचिवान्ससभ्यानभ्येति द्विगुणितमधर्मोऽनुसरतः // 37 // अपि च / न वारणो यस्य निवारणाय न वा रणो दोर्मदवारणाय / अलं बभूवास्य निरोधनाय कथं भवेमाद्य विरोधनाय // 38 // तदेतत्सराजकं राष्ट्र प्रहीणप्रायमपि परिहातुमस्माकमुचितम् / (पुनर्नेपथ्ये / ) अरे रे, कथमिमावतिक्रम्यास्मच्छासनमकुंतोभयाविवत एवाभिवतते / तदेतौ राजद्रोहिदण्डरीत्या आततायिवधेन च नातिदूरेण निग्रहीतव्यौ / (पुनः सरोषम् / ) हंहो, किमतः परमपि दाक्षिण्यसंरक्षणेन / वध्यन्तां व्रजवासिनः सतनया नन्दादयः सत्वरं हन्तव्यः प्रतिपक्षतामनुसरन्कि चोग्रसेनः पिता / बन्धव्यौ निगडैईलैश्च भगिनीभामौ निकारोचितौ निग्राह्यौ नितरां चिराय विविधैर्दण्डाभिघातोद्यमैः // 39 // रामः—(कृष्णं प्रति / ) आयुष्मन्, किमद्यापि प्रतीक्ष्यते / ननु पश्य / रोषावेशप्रदष्टाधरमलिकतटभृकुटीमङ्गभीमः . क्षुभ्यत्तारारुणाक्षः स्मयविधुतशिरःशेखरस्तस्तकेशः /