________________ 6 अङ्कः] . कंसवधम् / नायं लोको बलारेन च बलिनिलयो नापि वैकुण्ठपीठी. नाप्यन्यस्यानुबिम्बः किमयमुदयते दृष्टिबन्धः प्रबन्धः॥३१॥ (उच्चैर्मश्चानिरूप्य / ) अये, कथममी स्वस्वकाष्ठामधिष्ठिता नानादिगन्तागता दिक्पाला इव भूपालाः सदा रङ्गमण्डलं मण्डयन्ति / तथा हि / लीलादोलायमानोन्नमदमलशिरःशेखरश्रेणिरोह द्रोचिर्वीचिप्रपञ्चच्छलवलदमितोद्वान्तकान्तप्रतापाः / एते राजन्यगोष्ठीव्यतिकररभसोत्सर्पिदर्पप्ररोह प्राग्भारस्फारवक्षस्तटविकटलुठल्लोलमाला नृपालाः // 32 // (अत्युच्चैरवलोक्य कृष्णं प्रति / ) आयुष्मन्, कथमयं सप्तभूमिप्रासादशिखरशेखरीभूतां क्रीडाभवनवलभीमस्मद्दिदृक्षोत्कलिकाकुलो मातुलोऽलंकरोति / तदस्याकुण्ठोत्कण्ठोपशमाय सत्वरमुपसमिः / (इति सोपानारोहणं नाटयतः / ) कंस:--(दूराहवलोक्य सोद्वेगं ससंभ्रमं च सहसोत्थाय / ) रे रे सामन्ताः सदस्याः , निःसार्यतामिमौ पापी कुलाङ्गारौ मदोद्धतौ। मच्चक्षुःसंनिपातानौ यावन्न शलभायितौ // 33 // सभ्याः —(सर्वे समाकर्ण्य सादरमवलोक्य सानन्दम् / ) अयमयं भोः, मल्लक्रीडाश्रमजलकणाकीर्णमुग्धाननश्रीः पीतस्फीताम्बरपरिकरो बर्हपिच्छावतंसः / कण्ठोल्लुण्ठत्कमलवलयामृष्टवक्षोङ्गरागः .. स्कन्धासक्तद्विरददशनः साग्रजोऽग्रेऽभ्युपैति // 34 // (पुनः परिभाव्य सानुक्रोशहर्षम् / ) अहह, कथमिमौ सुकुमारतराकृती नन्दगोपकुमारौ निरीक्षमाणानामस्माकमन्तरात्मा प्रशान्तपावनत्वमवगाहते / तथा हि / राकासुधाकरमुधाकरचारुवक्र मिन्दीवरोदरसहोदरमेदुराङ्गम् / 1. 'दृष्टिबन्धप्रबन्धः' इति क-पाठः. 2. 'सानुक्रोशं सहर्षम्' इति क-पाठः.