________________ काव्यमाला। मुष्टिभिर्मुष्टिकोऽप्येष प्रलम्बरिपुणा हप्तः / कृतोऽद्य कतहस्तोऽपि कृतान्तसदनातिथिः // 27 // वेत्रधरः-अहह, असमञ्जसमसमञ्जसम् / निर्दोषाविव 'दोषौ जयश्रियो राज्यमण्डपस्तम्भौ / चरणौ नीतेनयने सिद्धेरिव यद्धतावेतौ // 28 // तदिदानी दुरवस्था जयास्था / (पुनर्नेपथ्ये कलकलः / ) . हन्त भोः, हत्वा दौवारिकाणां नियुतमसिभृतां मुष्टिनैकेन पिष्ट्वा - कूटं कूटप्रवीणं शलमपि कुशलं संगरे तोशलं च / / भित्त्वा द्वारावरोधं दलितकुवलयापीडदन्तैकशस्त्री ___ मध्ये रङ्गं प्रविष्टौ मदकलकलभोद्भासिनौ रामकृष्णौ // 29 // वैत्रधरकोष्ठपालौ-(आकर्ण्य सातङ्कम् / ) तैदिदमिदानीमनगलं कंसस्य स्वशरीरमात्रचिकित्सनीयमत्याहितमुपस्थितम् / न पुनरत्र कंचित्प्रतीकारं पर्यालोचयावः / भवतु तावदिमं पूर्ववृत्तं वृत्तान्तं महाराजाय निवेद्यावहितौ प्रत्यनन्तरीभूय प्राणव्ययेनापि स्वामिभक्तिव्रतमनुवर्तावहे / (इति निष्क्रान्तौ / ) (ततः प्रविशतो रामकृष्णौ।) कृष्णः -(सर्वतो निरूप्य सहर्षम् / ) अहो रमणीयता रङ्गवाटस्य / यतः। प्राकारा मणिकुट्टिमैरुपचिताः स्थूलेन्द्रनीलोपल प्रायाः प्राङ्गणभूमयः सितशिलासंदर्भगर्भोज्ज्वलाः। मुक्ताहीरकतारहारतरलस्त्रग्गन्धदीपाम्बर प्रोडूंतागुरुसारधूमशबलाश्चास्थानिका मण्डपाः // 30 // रामः-(निर्वर्ण्य साश्चर्यम् / ) अये, विश्वविलक्षणैवैषा सृष्टिः। तथा हि / न स्रष्टा सृष्टिमेतां विरचयितुमलं विश्वकर्मापि नैत त्कर्माभिज्ञो न सुज्ञः प्रतिहतविक्षुधाशेषमायो मयोऽपि / 1. भुजौ. 2, 'तदिदानी' इति ख-पाठः. 3. 'स्वशरीरमात्र' इति क-पाठः. 4. 'यज्ञवाटस्य' इति ख-पाठः. 5. 'प्रोद्भूता' इति क पाठः. 6. 'विविधाशेष' इति क पाठः,