________________ 6 अङ्कः] कंसवधम् / कठोरतराण्यङ्गानि / येषां प्रहारो वज्रादप्यतिदुःसहोऽस्माकं मर्माणि पीडयतितराम् / (पुननिर्वर्ण्य / ) कथमस्य वीररसरभसोत्सेकतुङ्गान्यङ्गानि प्रतिक्षणमुपचीयमानप्रभावातिशयदुप्प्रेक्षणीयानि लक्ष्यन्ते / तथा हि / ऐन्द्रो वज्रः किमथ दहनो वाडवः कालकूटः _ किं वा कूटः प्रलयजलदः पुष्करावर्तकः किम् / किंस्वित्पुञ्जः प्रलयतडितां द्वादशार्कोदयः किं यस्यालोके भवति नितरामिन्द्रियाणां प्रमोषः // 23 // तदस्माकं नास्ति जीवन्मुक्तिप्रत्याशा / परममुक्तिमेव तु निर्विवादं निश्चिनुमहे / तथापि न युद्धादुपरमामः / यतः / दैवाधीनः समिति विजयश्चेदुपस्थास्यतेऽस्मां__स्तभर्तुः प्रथितयशसो वल्लभाः स्याम नूनम् / मृत्युर्वा चेत्रिदशतरुणीचामरव्यग्रहस्त प्रेदूपारणितसुभगं स्वर्गराज्यं भजेम // 24 // (प्रकाशम् / ) रे रे गोपालबाल दुर्ललित, नेदानी भविष्यास / कृष्णः-(विहस्य / ) सत्यमात्थ / ननु रे, नहि नित्यभूतः पुनर्भवति / (नेपथ्ये / ) जवाबन्धभ्रमणपतनस्थानकश्येनपात ग्रीवास्कन्दप्लुतनिलयनैमषयुद्धप्रचारैः / उत्क्षिप्योच्चैः क्षितिमधिजवात्पातितः केशवेन क्षीणप्राणः शिव शिव लुठत्येष चाणूरमल्लः // 26 // वेत्रधरः-(सावेगम् / ) कथमसौ निहत एव / तथा हि / उद्भिन्नोदरकंदरोगिरदसुग्धाराकरालाननः क्रोधाध्मानविघूर्णमानतरलङ्क्रासितारोत्करः / नासारोकपरीक्ष्यमाणकपणप्राणप्रयाणक्षणो नष्टाशेषविचेष्टितो गिरिरिवाध्यास्ते क्षिति कम्पयन् // 26 // कोष्ठपालः-हा धिक् कष्टं भोः / 1. नासारन्ध्र.