________________ काव्यमाला। नो चेत्त्वामन्तरेण प्रतिहतगतयः शक्नुमो हन्त गन्तुं तद्यूयं युद्धशिक्षा वितरत कृपया सिद्धविद्याप्रदानात् // 18 // चारमुष्टिको-(सहर्षम् / ) अनुमतमेतत् / तद्बध्यतां परिकरः / / रामकृष्णौ-(तथा कृत्वा उभौ प्रति / ) * यथासंख्येन युवयोरस्त्वाचार्यकोवयोः। . कृतहस्तौ यथा शीघ्रं तोषयामोऽद्य मातुलम् // 19 // चाणूरः-साधु मन्त्रितम् / मुष्टिक, त्वं तावदेनं. बालशिक्षया दीक्षय / अहमप्येनम् / (इत्यन्योन्यं पाणी परामृशतः / ) रामकृष्णौ-आचार्य, - बालौ च बालिशौ चावां न विद्मो युद्धकौशलम् / किंतु __ भवच्चेष्टानुकरणं करिष्यामः कियच्चिरम् // 20 // चाणरमुष्टिकौ-(स्वगतं सहर्षम् / ) अहो महाभाग्यं महाराजकंसस्य / महांश्चासौ बुद्ध्यतिशयः / यदशक्यप्रतीकारावप्यनेनोपायेन सुनिग्रहाविति विचिन्त्य तथा संविधानं व्यधत्त / अस्मद्भाग्यवशाच्चेतावप्यत्यन्तानभिज्ञौ देवेन पशूकत्योपहृतौ / तदेतावकृच्छ्रेणैव करतलेन मत्कुणाविव संमृद्य राज्ञः पारितोषिकमाहरिष्यामः / (प्रकाशम् / ) रामकृष्णौ, साधु मन्त्रयेथे। आदावावां यद्यदङ्गमभिहन्मो यथा यथा / तथा तथानुवर्तेथां शिक्षायामेष हि क्रमः // 21 // रामकृष्णौ-यथादिशतमाचार्यो। (इति द्वन्द्वयुद्धमनुकुरुतः / ) तथा हि। अंसेनांसं मुष्टिना मुष्टिमूरू हत्वोरुभ्यां वक्षसा चापि वक्षः / शीर्ष शीर्णा चाथ पादौ पदाभ्यां दोभ्यो दोषौ जग्नतुस्तौ यथेष्टम्॥२२॥ चाणूरमुष्टिको-(स्वगतम् / ) अहो बालयोरप्येतयोर्घनघात्यान्यति१. 'यथासंख्यं न' इति ख-पाठः. 2. 'आर्ययोः' इति ख-पाठः. . 3. 'भागधे. यवशात्' इति ख-पाठः.