________________ 6 अङ्कः] कंसवधम् / कोष्ठपाल:—एवमस्तु / ___ (इति निष्कान्तौ / ) प्रवेशकः / (ततः प्रविशतो रामकृष्णौ चाणूरमुष्टिकाभ्यां प्रत्यवतिष्ठमानौ / ) रे रे द्वारावरोधं जहिहि वितर नो रङ्गवाटे प्रवेशं चाणूरः-- शूरा एव प्रवेश्या न तदितर इति क्षमापतिर्नः प्रशास्ति / कृष्णः-(विहस्य / ) शूरं मां वेत्ति कंसो न किमिह चाणूरः कुलतो वेत्ति नो कर्मतस्तत् कृष्णः___मैवं वादीरपार्थं न दधति कुलजा मामका नामधेयम् // 16 // मुष्टिकः-चाणूर, सत्यमेतदाह कृष्णः / यतः श्रुतपूर्वमस्माभिर्महाराजेन च, यत्किल गोकुले महाबलैगोपालैः सह मल्ललीलाविनोदमनुभवन्तौ निःशेषितानेकवीरव! निसर्गदुर्मदोत्सित्तौ मथुरामण्डलं मण्डयत इति / एतदेव चोपश्रुत्य वीरसमरदिदृक्षाकुतूहलिना महाराजेन सबहुमानमानायितावेतौ / प्रवर्तितश्च रङ्गप्रसङ्ग एतयोः प्ररोचनार्थम् / तदे. ताभ्यामप्यस्य राज्ञो मनोरथः संपादयितुमुचित एव / (कृष्णमुद्दिश्य / ) राजाज्ञाननिवर्तनं हि परमो धर्मः प्रजानामयं लाभख्यातिमहत्त्वसंपदपरो दोर्दण्डकण्डूमृजा / तन्मे दर्शय युद्धकौशलकलां मत्प्रत्ययादेव हि ___ प्रीयेत प्रभुरन्यथा तु भवतोः प्रत्यागतिर्दुःशका // 17 // कृष्णःनो युक्ता युद्धचर्चा समरविजयिभिर्वीरगोष्ठीगरिष्ठै- युष्माभिर्बल्लवानां वनभुवि वसतां राजदण्डोचितानाम् / 1. 'प्रवेशकः' इति पुस्तकद्वयेऽपि नास्ति. 2. 'दुर्लभा' इति ख-पाठः. भवन्त च यत्किल गोकुले मजा कृष्णः / यतः वयम् // 16 //