________________ काव्यमाला। (नेपथ्ये कलकलः।) (उभौ ससंभ्रममाकर्णयतः।) (पुनर्नेपथ्ये) हद्धि हद्धि / अणीसोमि दाणि संवुत्तो / अअं जणो पसुमारं मारिजइ / ता पलित्ताअध महाणुभाआ / (क) उभौ-आः, कोऽयमन्यैः परिवाध्यमानोऽशरणोऽस्मासु पूत्करोति / (प्रविश्य संभ्रान्तः पुरुषः / ). . पुरुषः-आयुष्मन्तौ, युष्मत्पादपद्मोपजीवी कुब्जको नाम रामानुचरः। उभौ-अथ किं तस्य / पुरुषः–स राज्ञश्चैलनिणेजकेन व्यापाद्यमानो मयानुनीय कथं कथमप्यनुमोचितो नाद्यापि प्रत्यवस्थानाद्विरमति / कृष्णः-तदागच्छ तावत् / प्रत्यनन्तरीभूय तस्यापराधकारणं निभृतमवगच्छामः / (इति नेपथ्यान्तरितौ तिष्ठतः।) (ततः प्रविशति कुब्जको रजकश्च / ) कुब्जक:-अले अले लजअआ, देहि अह्माणं सामिणं लाअपुलप्पवेशजोग्गाई वशणाई निवशिदुम् / (ख), रजक:-अले दासीए पुत्तआ, को तुम, के उण तुझ सामीओ / (ग) कुब्जकः-हग्गे णन्दगोअकुमालाणं लामकण्हाणं पलिचालए चेलधाअए / (घ) (क) हा धिक् हा धिक् / अनीशोऽस्मीदानीं संवृत्तः / अयं जनः पशुमारं मार्यते / तत्परित्रायेथां महानुभावौ / (ख) अरे अरे रजकक, देह्यस्माकं खामिनो राजपुरप्रवेशयोग्यानि वसनानि निवसितुम् / (ग) अरे दास्याः पुत्रक, कस्त्वम् / को पुनस्तव खामिनौ / (घ) अहं नन्दगोपकुमारयो रामकृष्णयोः परिचारकश्चेलधावकः /