________________ कंसवधम् / . 47 रामः-(पुरो निरूप्य सहर्षम् / ) कालिन्दी मन्दमन्दानिलचलदमलालोलकल्लोलमाला दोलाखेलन्मरालैरविरलकमलालंकृतेवावभाति / मजन्मातङ्गगण्डस्थलगलितमदामोदलोभाद्रमद्भि भंङ्गैनीरन्ध्रितो– कुवलयवलया द्वैतमाविष्करोति // 11 // कृष्णः-(स्पर्शसुखमभिनीय सहर्षम् / ) एते पाटीरवाटीनवविटपनटीलास्यशिक्षातिदक्षा दोलाखेलत्पुरंध्रीश्रमजलकणिकाजालपानातिपीनाः / सौरभ्यादापतद्भिर्मधुकरपटलैः पृष्ठतोऽनुप्रयाताः कामाग्नेर्वान्ति धाय्याः पथिककुलवधूबद्धवैराः समीराः // 12 // रामः-आयुष्मन्, कथं विविधकलाकलनकौतुकाक्रान्तचित्ततयानधिगताध्वसंचारखेदा न चिरादेव राजधानीमुपगताः स्मः / तथा हि / उपवनतरुखण्डहिण्डमानाण्डजकुलकाकलिकाकुलीकताशाः। परिनदितशिखण्डमण्डलीका ददति सुखं मथुरोपशल्यदेशाः // 13 // अपि च / वाताधूतमधूकपूगनिवहैर्जम्बीरजम्बूचयै वन्यैश्चापि कदम्बनिम्बकुटनैः कम्भारिरम्भाभरैः / यहाटी वटपर्कटीचलदलश्रीदाडिमश्रीफलैः ___ खजूरीपनसादिभिर्विजयते नारङ्गरङ्गस्थली // 14 // __(पुनः साश्चर्यम् / ) माकन्दा मकरन्दबिन्दुनिवहैरानन्दितेन्दिन्दिराः किं वामन्दमरन्दकुन्दनिचया मन्दानिलान्दोलिताः / सौराज्येऽप्यधुना भवन्ति न यदा ते वाटपाटच्चराः - पान्थानां किमतःपरं परिचितास्ते चम्पकाः कम्पकाः // 15 // 1. अग्निसमिन्धनक.