________________ काव्यमाला। सुदामा-(विहस्य / ) रे मुग्धाशयोऽसि / यन्मातुलालयविलोकनकौतुकेन प्रातस्तरामनुगतौ सवयोभिरेतौ / संप्रस्थितौ किल कलिन्दसुतातितुङ्ग रिङ्गत्तरङ्गमुभगेन पथा विहर्तुम् // 7 // मुनन्दः-(सविषादम् / ) अहह, कथमविमृश्यकारितया नन्दादेशप्रतीपमेवाचरितमाभ्याम् / हन्त भोः, न तादृशः कोऽपि सखा न वृद्धो न गोपिता नापि पिता न माता / बाल्यादिमौ यच्चपलौ निरुध्यात्तदत्र दैवं शरणं प्रतीमः // 8 // (प्रकाशम् / ) तदागच्छ / आवामपि तपनतनयातीरपरिसरविहरणशीलावेतावनुसरावः। (इति निष्क्रान्तौ / ) प्रस्तावना। (ततः प्रविशतो रामकृष्णौ / ) रामः-अहो रमयतितरां प्राभातिकी तरणितनयातीरशोभा अचिरोषिताभिर्वर्षाभिः कृतोपद्रवापि पुनः प्रकृतिमापन्ना / तथा हि / भग्नास्तीरमहीरुहः सहचराः प्रोत्सारिताः पक्षिणः कालुप्यं हृदये कृतं सहभुवस्त्यक्ताः प्रसादादयः / स्रोतोभिर्जलदप्रमुक्तसलिलैरासाद्य वृद्धि क्षणा कि किं नापळतं बलाद्विकुरुते लक्ष्मीमदः क्षुद्रकान् // 9 // कृष्णः-एवमेतत् / संप्रति तु सुविहितं शरदा / तथा हि / व्योमापध्वस्तमेघावरणमपसरत्पङ्कशङ्काकलङ्कः __ पन्था निस्तन्द्रचन्द्रा रजनिरपि सरिद्राजहंसावतंसा / फुल्लद्राजीवराजीबहलपरिमलोद्गारधीरः समीरः क्ष्मापालांश्चित्तवृत्तिश्चपलयति चिराज्जैत्रयात्रोत्सवाय // 10 // 1. 'मुग्धाशय मुग्धाशयोऽसि' इति ख पाठः. 2. 'यात्रोद्यमाय' इति ख-पाठः.