________________ 5 अङ्कः] . कंसवधम् / नसो नन्दगोपः सुहृद्भिः सह संमन्त्र्य विशदचन्द्रचन्द्रिकाधवलायां रजन्यां-ससुहृत्समाजः शकटाधिरोपितविविधोपढौकनिकसहस्त्रसनाथीकृतगोधनगोपगोपीप्रधानं शिविरं वृन्दावनरानधान्योरन्तराले निवेशितवान् / वयं चेदानीं राजकरमुपाहतु नगरमुपागमत् / सुदामा-कथय तावत्, किमस्याकूतम् / सुनन्दः-किं कथ्यताम् / ननु तेनैव व्यक्तमुक्तम्-('क्रूराशये' इ. त्यादि पठति / ) सुदामा-यद्येवं तत्किमिव तत्प्रतिविहितं मन्यते गोपद्धः / सुनन्दः–बाढमयं हि तस्याशयः / साम्ना दानेन भेदेन चेदयं नोपशाम्यति। . ततः पुरःसरीभूय नियोत्स्ये वत्सयोरहम् // 3 // सुदामा-उचितमेवैतत्पुत्रिणां पुत्रवात्सल्यस्य / यदपरविषयेभ्यः प्रीतिपात्रं स्वगात्रं गुरुतरममुतोऽपि प्राणिनां प्राणमात्रम् / प्रियतममिह तस्मादप्यपत्यं न कृत्यं परमिह मनुजानामस्त्यतः पुत्रलाभात् // 4 // किं तु / अनपेक्षितात्मशक्ति प्रतिपक्षे रक्षसां पक्षे / व्यवसितमिदमेतस्य क्षेमाय न किं तु चित्तखेदाय // 5 // सुनन्दः-आः, कथमेवमुच्यते / यतः / को वेद दैवचरितं येन ब्रह्माण्डकोटयः सृष्टाः / * निमिषार्धन क्षपिता दशाननब्रह्मरुद्वेन्द्राः // 6 // सुदामा-अलमिदानीमुक्तिप्रत्युक्तिभिः कालातिपातेन शिविरसंनिवेश एव स्त्रैणं निवेश्य रामकृष्णावनुसरामि / सुनन्द:-क्व पुनरिदानीमिमौ दृष्टव्यौ / यदहमपि नन्दगोपस्य निदेशादेतो सहसा राजधानीप्रवेशाद्विरमयितुं त्वरया प्रस्थितोऽस्मि / 1. तावत्प्रतिविहितं' इति क-पाठः. 2. 'तत्कलत्रम्' इति ख-पाठः. 3. 'ननु जाने नास्त्यतः' इति क-पाठः.