________________ 44 काव्यमाला। पञ्चमोऽङ्कः / (ततः प्रविशति सुनन्दनामा गोपालः / ) सुनन्दः-आदिष्टोऽस्मि तत्रभवता घोषवृद्धेन नन्दगोपेन, यत्किलाक्रूरागमनगौरवेण रणरणकोपजातदाक्षिण्यसाध्वसावेशविवशतयाविमृश्यकारिणा रामकृष्णौ प्रस्थापयता मया नोदर्कशुद्धमालोचितमिति परितप्यते मे चेतः / यतः। क्रूराशये कुटिलनीतिनिविष्टबुद्धौ वैरानुबन्धपरिशङ्कितचित्तत्तौ। व्रीडाविवेकविधुरे मधुरे हितेऽपि __ कंसे न विश्वसिति मे हृदयं नृशंसे // 1 // तद्यावदेनं नानाविधोपायनपाणिभिर्घोषवासिभिः सबालदारैः शिथिलीकृतानुशयं करोमि, तावद्वत्साभ्यां वृन्दावनविहारकौतुकव्याजेन कियचिरं विलम्ब्यास्मदनुयाताभ्यां महाराजो द्रष्टव्य इति / तदनुसरामि तावत् / क्वेदानी रामकृष्णौ द्रक्ष्यामि / (इति परिक्रम्यावलोक्य च।) अये, कथमयं सुदामा तयोः सहचर इत एवाभिवर्तते / तदस्मात्प्रवृत्तिमुपलप्स्ये / (प्रविश्य / ) सुदामन्, क्व प्रस्थितोऽसि / सुदामा 'रासोत्सवपरिश्रान्तं कान्ताजनकदम्बकम् / निवेश्य गोकुले पित्रोः प्रवृत्तिं समुपाहर' // 2 // इति प्रेषितोऽस्मि तत्रभवद्भयामार्याभ्याम् / सुनन्दः-तदलं गोकुलगमनावेशेन / सुदामा-कथमिव / सुनन्दः-निर्जनमिदानी गोकुलम् / सुदामा-(ससाध्वसम् / ) स्पष्टं तावत्कथय / सुनन्दः-किं न श्रुतवानसि / प्रस्थितयो रामकृष्णयोरनु तन्मा१. 'निविष्टतुष्टौ' इति ख-पाठः. 2. 'तावद्वत्साभ्यां महाराजो न द्रष्टव्यः' इति क-पाठः.