________________ 4 अङ्कः] . कंसवधम् / . 43 कृष्णः-(प्राचीमवलोक्य / ) कथमुपनत एव सायंतनः समयः। तथा हि / कासारे कलहायिता इव मिथः सद्यः परागाननाः स्वैरं चक्रचकोरपद्मकुमुव्राताश्चिरादासते / प्रत्यक्सिन्धुनिमज्जदुष्णकिरणालातोत्थधूमैरिव प्रध्मातोदरमेतदम्बरमितो ध्वान्तैः पराभूयते // 11 // सुदामा-आयुष्मन्, एवमेतत् / प्राची कैरविणीगणाः परिणमच्छीतांशुगर्भामिव खैरं स्मेरमुखाः पुरः प्रसविनी व्याख्यान्ति भृङ्गारवैः / किं चोदश्चितचच्चु चन्द्रमभितो मार्जन्ति जिह्वाञ्चलैः ___ सद्यः स्यूतजरायुवत्करकणव्रातं चकोराङ्गनाः // 52 / / कृष्णः-तदिदमनन्तरम् / तथा हि / एष प्रोषितभर्तृकाकुलमिलत्प्राणप्रयाणे पुरः प्रत्यूहप्रतिघातपूर्णकलशश्चन्द्रः समुज्जृम्भते / तत्कालप्रतिबुद्धकैस्ववनीसंभ्रान्तभृङ्गाङ्गना भेरी रिरवाः स्फुरन्ति मदनप्रस्थानसौवस्तिकाः // 53 // अपि च / विशदकरवरत्रानद्वगोत्राद्विकीलं - शिबिरपटकुटीरं चान्द्रमुच्चैर्वितत्य / रतिपतिरतिरोधात्तारकापुष्पबाणै स्तुदति युवमनांसि ध्वान्तदन्तावलाढ्यः // 54 // तदेहि / शशधरकरनिकरपरितप्यमानमात्मानं वृन्दावनतरुतिरस्करिणीनिरस्तचन्द्रिकासंपर्क परित्रास्यामहे / सुदामा-यथाभिरुचितमायुष्मते / (इति वृन्दावनप्रवेशं नाटयन्ति / ) ___ इति कंसवधे चतुर्थोऽङ्कः / 1. पराङ्मुखा इत्यर्थः. 2. 'सुखप्रसविनों' इति ख-पाठः. 3. 'सूत' इति ख-पाटः. . 4. 'भृङ्गरवाः' इति ख-पाठः.