________________ 42 काव्यमाला। वहारं तिरोहितबहिरुपाधिसंस्कारं रासक्रीडामहोत्सवं निवर्त्य, निवर्त्य च सकलसुन्दरीसमाज प्रभातायां रजन्यां राजधानीमनुसरिष्यामः / कृष्णः-साधु पर्यालोचितम् / तद्विसर्जयैनां राधासमाराधनाय / उपाहरतु चैनां संदेशसंग्रहकारिकाम् त्वत्संकल्पप्रणयि हृदयं पञ्चभिः पञ्चबाणो बाणैरेणीचपलनयने पञ्चतां नेतुमैच्छत् / कालक्षेपं यदयमदयोऽप्यद्य यावद्विधत्ते / / तत्कर्तव्यापकृतिविपरीतार्थताशङ्कयैव // 18 // सुदामा-विलासवति, अलमिह तवोपचारैः प्रत्युतसंतापसंततिनिदानैः / अयमचिरादपनेष्यति भगवानस्या रसेन संतापम् // 49 // निभृतं च कणे कथय-यदद्य रासरसोत्सवाय मुरलीरवमाकर्ण्य तूर्णमेव वंशीवटविहारभूमावुपस्थातव्यमिति / / कृष्णः-अथवा सर्व एव गोकुलवासिनः समायातनीयाः / उचितं च प्रथमनिवसतौ सुहृदां प्रस्थितानुव्रजनम् / विलासवती--यदादिशति देवः / (इति निष्क्रान्ता / ) कृष्णः-सखे, अक्रूरमुपसृत्य विज्ञापय-भगवन्, अतिकठोरकिरणस्तपति तपनः / तन्नातिदूरे वृन्दावनोपवनेऽद्य विश्रम्य श्वोभूते मातुलालयमुपसरिष्यामः / उदाहरन्ति च जरन्तः 'प्रथमा वसतिः स्वल्पसंचारा चेत्सुखावहा / यदस्यां पीतमशितं तत्सर्वत्रोपतिष्ठते' // 50 // वृन्दावनदिदक्षा चास्मानुत्तेजयति निशि निवस्तुम् / तदद्य पुरःसरीभूय राज्ञेऽस्मदागमनमावेदयत्वार्यः / यावदेनमस्मदागमनोत्कण्ठा नोत्तरलयति / अक्रूरः-(सुदामोक्तमाकर्ण्य / ) यथाभिलषितमायुष्मते / (इति निष्क्रान्तः।) 1. 'अपहृति' इति ख-पाठः. 2. 'षटकर्णमेव' इति क-पाठः.