________________ . 4 अङ्कः] कंसवधम् / अरीनरीनृत्यमानपिकसुन्दरीसहस्रकलकलाकुलिततरुणतरुशिखरं तरणितनयोत्तुङ्गरिङ्गत्तरङ्गप्रसङ्गसंगतानङ्गरङ्गकूलकूजविहंगपुंगवद्वन्द्वानुभूयमानकल्लोलदोलाखेलनकुतूहलमैतिचपलगोपालबालिकाकलितकरतालिकातरलवलयावलीकलकनककिङ्किणीचरणमणिनूपुरक्वणितवेणुवीणारवानुगतमृदुमृद ध्वनिजनितहर्षप्रकर्षप्रकटिताकाण्डताण्डवाडम्बरोद्दण्डशिखण्डिमण्डलीमण्डितस्थण्डिलमतिविशदशशधरविसृमरकरनिकरचारुक्षीरधाराधोरणीधौतधरणिमण्डलमसमशरशरनिकरपरवशीकृतसुरनरमृगखगप्रमुखजीवजात- समुपजातशान्तमदनमहीपतिक्रीडावनं वृन्दावनं नाम / / कृष्णः-(स्मृतिमभिनीय / ) अये, साधु स्मारितोऽस्मि / परिशीलितपूर्वमेतदस्माभिः / यत्किल वाचालैः शुककेकिकोकिलकुलैरारब्धकोलाहलं वातान्दोलनलोलपल्लवलतालावण्यलीलागृहम् / उन्मीलन्मकरन्दतुन्दिलदलद्वासन्तिकासुन्दरं शश्वन्मामकमत्तचित्तकरिणः संरोधसंदानकम् // 46 // अपि च / __ अतिचित्रैः सुमनोभिः सुमनोभियोगिनामिवोपचितम् / शीलितमगमैरगमैनिगमैरिव योगमारूडैः // 47 // मुदामा-एवमेतत् / तदत्रैव राकानिशाकरकरनिकरकरम्बिताशेषदिक्चक्रवाले परमोदाररमणीये समये तरणितनयातटोपशोभिवंशीवटोपान्तवेदिकाविहारमण्डलीमण्डनीभूय निभृतनिभृतमधरसुधापूरितमधुरमुरलीरवाहूतनूतनांभिसारिकासहस्त्रसविभ्रमारब्धसरभसपरीरम्भसंभ्रमो विरहविधुराभीरकामिनीसमाजमावर्जयन्नतिविततबाधां राधामप्याराधयत्वायुष्मान् / इत्थमनुभावितरासरसातिरेकपरम्परापचेलिमनिर्भरानन्दाद्वयविस्मृतरसान्तरमपरिचितोचितानुचितविचारचातुरीचमत्कारमपलपितपरापरादरगौरवव्य 1. 'अतिचलद्गोपाल' इति ख-पाठः. 2. 'वीणानकानुगत' इति क-पाठः. 3. 'इत्थमनुभवति' इति ख-पाठः. 4. 'विस्मृतपदम्' इति ख-पाठः. 5. 'व्यवहारतिरोहित' इति ख-पाठः.