________________ काव्यमाला। बाला कालातिपाताकलनविरचितानल्पसंकल्पदुःस्था चित्रन्यस्तेव तस्थौ मयि निहितमना लोचनागोचरेऽपि // 42 // (लोचने निमील्य चिरं ध्यात्वा सोत्कण्ठम् / ) सान्द्रसान्द्रपुलकाङ्कुरपालीदन्तुरान्तुरभुजान्तरगूढः / कान्तया पुनरहं चिरचिन्तातान्तया बत कदा परिरभ्ये // 43 // (उच्चैनिःश्वस्य / ) हंहो दैवहतक, कथं वञ्चितोऽस्मि / सा बिम्बाधरमाधुरी निरवधिः सा केलिकोपाकुला. ___ वाचः काचन चातुरी परिचितोदश्चद्विपञ्चीचया / किं च व्यञ्जितपञ्चबाणविजयास्ताः सालसा दृष्टयो __भूयो गोचरतां व्रजन्त्यपि विधे तस्याः कुरङ्गीदृशः // 44 // सुदामा-शान्तं पापम् / कथमनाश्वासः / नन्वचिरादेव तत्रभवान्समीहितभाजनं भविष्यति / / कृष्णः-हन्त भोः, . मद्वियोगताबाधा राधा नोपेक्षितुं क्षमा / अनतिक्रमणीयं च मातुलस्योपसर्पणम् // 45 // तत्किमत्र प्रतिपद्यताम् / सुदामा-(चिरं विचिन्त्य / प्रकाशम् / ) आयुष्मन्, उभयमप्यविरोधेन समाधीयताम् / कृष्णः -(सादरम् / ) कथमिव / सुदामा तदाकर्ण्यतामवधानेन / अस्ति किल नातिदूरेऽधितरणितनयातीरपरिसरनिरस्तसमस्तोपसर्गमपास्तकलिकालकलुषमेवधीरितविविधाधिबाधमगाधगुणगरिमसंभारगम्भीरं विश्वविश्वंभराभोगभूषणीभूतप्रभूतवैभवं दरदलितललितकमलकुलगलदमन्दमकरन्दगन्धबन्धुरपरागधारान्धीकृतपुष्पंधयधोरणीदोधूयमानमाधवीलतावनद्धं विविधतरुकुसुमकहारमधुरमधुपानमत्तमधुकरीकलरवमुखरीकृतदिगन्तरं मन्दानिलाधूतनूतनचूतम 1. 'परिभाव्य' इति क-पाठः. 2. 'पुलकान्तर' इति ख-पाठः. 3. 'परिरप्स्ये इति ख-पाठः. 4. 'कृतां बाधां' इति ख-पाठः. 5. 'अवधूत' इति क-पाठः.